This page has been fully proofread once and needs a second look.

ईश्वर उवाच-
श्रीराम राम रामेति रमे रामे मनोरमे ।
सहस्रनामतत्तुल्यं रामनाम वरानने ॥ १३५ ॥)
 
ब्रह्मोवाच -
 
नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटीयुगधारिणे नमः ॥
इति श्रीमन्महाभारते (प्राक् शान्तिपर्वणि संप्रति)
आनुशासनिकपर्वणि दानधर्मप्रकरणगतः
 
श्रीविष्णुसहस्रनामाध्याय: संपूर्ण:
 
शुभमस्तु