2023-06-16 17:20:10 by jayusudindra
This page has been fully proofread once and needs a second look.
इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः ।
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥ १२४ ॥
सर्वागमानामाचार: प्रथमः परिकल्प्यते ।
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ १२५ ॥
ऋषयः पितरो देवा महाभूतानि धातवः ।
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥ १२६ ॥
योगज्ञानं तथा सांख्यं विद्याश्शिल्पादि कर्म च ।
वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ॥ १२७ ॥
एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः ।
त्रील्लोँकान् व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥ १२८ ॥
इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् ।
पठेत् य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥१२९ ॥
[श्वरमजं देवं जगतः प्रभवाप्ययम् ।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥ १३० ॥
न ते यान्ति पराभवमोंनम इति ॥ अर्जुन उवाच -
पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम ।
भक्तानामनुरक्तानां त्राता भव जनार्दन ॥ १३१ ॥
श्रीभगवान् उवाच-
यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव ।
सोऽहमेकेन श्लोकेन स्तुत एव न संशयः ॥ १३२ ॥
स्तुत एव न संशय ओं नम इति । व्यास उवाच-
वासनाद्वासुदेवस्य वासितं ते जगत्त्रयम् ।
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥
वासुदेव नमोऽस्तु त ओं नम इति ॥ (पार्वत्युवाच -
केनोपायेन लघुना विष्णोर्नामसहस्रकम् ।
पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ॥ १३४ ॥