This page has been fully proofread once and needs a second look.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः ।

वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥ १२४ ॥

सर्वागमानामाचार:
प्रथमः परिकल्प्यते ।
 
सर्वागमानामाचार:
 

आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ १२५ ॥
 

ऋषयः पितरो देवा महाभूतानि धातवः ।

जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥ १२६ ॥
 

योगज्ञानं तथा सांख्यं विद्याश्शिल्पादि कर्म च ।

वेदाः शास्त्राणि विज्ञान मे तत्सर्वःवं जनार्दनात् ॥ १२७ ॥
 

एको विष्णुर्महद्भुभूतं पृथग्भूतान्यनेकशः ।

त्रील्लोलोँकान् व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥ १२८ ॥

इमं स्तवं भगवतो विष्णोर्व्या सेन कीर्तितम् ।
 

पठेत् य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥१२९ ॥

[श्वरमजं देवं जगतः प्रभवाप्ययम् ।

भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥ १३० ॥

न ते यान्ति पराभवर्मोमोंनम इति ॥ अर्जुन उवाच -

पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम ।

भक्तानामनुरक्तानां त्राता भव जनार्दन ॥ १३१ ॥

श्रीभगवान् उवाच-

यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव ।

सोऽहमेकेन श्लोकेन स्तुत एव न संशयः ॥ १३२ ॥

स्तुत एव न संशय ओं नम इति । व्यास उवाच-

वासनाद्वासुदेवस्य वासितं ते जगत्त्रयम् ।

सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥

वासुदेव नमोऽस्तु त ओं नम इति ॥ (पार्वत्युवाच -
 
५९
 

केनोपायेन लघुना विष्णोर्नामसहस्रकम् ।

पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ॥ १३४ ॥