This page has not been fully proofread.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः ।
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्र एव च ॥ १२४ ॥
प्रथमः परिकल्प्यते ।
 
सर्वागमानामाचार:
 
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ १२५ ॥
 
ऋषयः पितरो देवा महाभूतानि धातवः ।
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥ १२६ ॥
 
योगज्ञानं तथा सांख्यं विद्याश्शिल्पादि कर्म च ।
वेदाः शास्त्राणि विज्ञान मे तत्सर्वः जनार्दनात् ॥ १२७ ॥
 
एको विष्णुर्महद्भुतं पृथग्भूतान्यनेकशः ।
त्रील्लोकान् व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥ १२८ ॥
इमं स्तवं भगवतो विष्णोर्या सेन कीर्तितम् ।
 
पठेत् य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥१२९ ॥
[श्वरमजं देवं जगतः प्रभवाप्ययम् ।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥ १३० ॥
न ते यान्ति पराभवर्मोनम इति ॥ अर्जुन उवाच -
पद्मपत्रविशालाश पद्मनाभ सुरोत्तम ।
भक्तानामनुरक्तानां त्राता भव जनार्दन ॥ १३१ ॥
श्रीभगवान् उवाच-
यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव ।
सोऽहमेकेन श्लोकेन स्तुत एव न संशयः ॥ १३२ ॥
स्तुत एव न संशय ओं नम इति । व्यास उवाच-
वासनाद्वासुदेवस्य वासितं ते जगत्त्रयम् ।
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥
वासुदेव नमोऽस्तु त ओं नम इति ॥ (पार्वत्युवाच -
 
५९
 
केनोपायेन लघुना विष्णोर्नामसहस्रकम् ।
पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ॥ १३४ ॥