This page has been fully proofread once and needs a second look.

वारिधि र्योऽसौ देवकीनन्दनः स्मृतः ॥ (990) स्रष्टा - परावस्थां प्रपन्नोऽसौ
स्रष्टा सर्वस्य सर्जनात् ॥ (991) क्षितीशः - भूभारक्लेशहारी यः क्षितीशः
स च कथ्यते ॥ ( 992) पापनाशनः नवनीतस्तैन्यरासक्रीडाद्यात्मकथा-
ऽमृतैः । पापानां नाशनो लोके यः स स्यात् पापनाशनः ॥
 
शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः ।
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥ १०७ ॥
 
(993) शंखभृत् - शंखभृत् परमैश्वर्यलक्षणायुधधारणः ॥ (994)
नन्दकी - नन्द्यान्मामयमित्येवं प्रार्थ्यो भगवताऽपि यः । स नन्दको
नित्ययोगी यस्यासौ नन्दकी स्मृतः ॥ (995) चक्री- सर्वरक्षोसुर-
च्छेत्रा नित्यं चक्रेण योगतः । चक्रीति कथ्यते सम्यक् ऋत्त्वर्णः शत्रुनाशकः ॥
(996) शार्ङ्गधन्वा - शार्ङ्गाख्यं धनुरस्येति शार्ङ्गधन्वा प्रकीर्तितः । (997)
गदाधरः— कौमोदकीधारणाच्च गदाधर इतीरितः ॥ (998) रथाङ्ग-
पाणि: - यथोदितं रथाङ्गञ्च पाणौ यस्य सदोद्यतम् । रथाङ्गपाणिराख्यातो
नवार्णो भयनाशकः ॥ (999) अक्षोभ्यः - प्रपन्नाभयदानार्थव्रतदार्ढ्या-
दसौ तथा । अचाल्यः स्वमहिम्नापि ह्यक्षोभ्य इति कीर्तितः ॥ (1000)
सर्वप्रहरणायुधः - पादमूलं प्रपन्नानामनिष्टोन्मूलने स्वयम् । असंख्ये-
यान्यमर्यादसामर्थ्यान्यात्मनः सदा । सर्वत्र सर्वथा सर्वप्रकारा-
श्रितरक्षणे । दीक्षितान्यूर्जितान्यन्यान्यनन्तान्यायुधानि हि । यस्य सन्ति
स वै नित्यं सर्वप्रहरणायुधः । द्वादशार्णो महामन्त्रः सर्वदुःखविनाशकः ।
एवं श्रीशं प्रपन्नानां सर्वाः सिद्ध्यन्ति संपदः ॥
 
नामसहस्रनिर्वचनं संपूर्णम् । शुभमस्तु ।
 
वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी ।
श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥ १०८
इतीदं कीर्तनीयस्य केशवस्य महात्मनः ।
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् १०९ ॥
य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् ॥
नाशुभं प्राप्नुयात्किंचित्सोऽमुत्रेह च मानवः ॥ ११० ॥