This page has been fully proofread once and needs a second look.

यज्ञ इत्युच्यते बुधैः ॥ (972) यज्ञपतिः - यज्ञस्य फलदो यस्मात्
तस्मात् यज्ञपतिः स्मृतः ॥ (973) यज्वा - अशक्तविषये यष्टा स्वयं यज्वेति
कथ्यते ॥ (974) यज्ञाङ्गः - शेषः शक्तकृतो यज्ञोऽस्येति यज्ञाङ्ग उच्यते ॥
(975) यज्ञ वाहन: - तेषां श्रद्धाधिकारादिदानात् स्यात् यज्ञवाहनः ॥
 
यज्ञभृत् यज्ञकृत् यक्षी यज्ञभुक् यज्ञसाधनः ।
यज्ञान्तकृत् यज्ञगुह्यमन्नमन्नाद एव च ॥ १०५ ॥
 
(976) यज्ञभृत् - पूर्णाहुतिस्वस्मृतिभ्यां विफलं यज्ञमप्युत
पुष्णाति यज्ञभृत् स स्यात् सप्तार्णो मनुरुत्तमः ॥ (977) यज्ञकृत्-
जगद्धिताय कृतवान् यज्ञमादौ स यज्ञकृत् ॥ (978) यज्ञी - यस्सर्वेषां
तु यज्ञानां शेषी यज्ञीति कथ्यते ॥ (979) यज्ञभुक् – भुङ्क्ते तान् स
भुनक्त्येवं यज्ञभुक् स निगद्यते ॥ (930) यज्ञसाधनः - ज्ञानद्वारा
यस्य यज्ञः साधनं यज्ञसाधनः ॥ (981) यज्ञान्तकृत् - अन्तं पर्यवसानं
यो यज्ञानां कुरुते स्वयम् । स्वतत्वज्ञानरूपं तु स यज्ञान्त-
कृदुच्यते ॥ (982 ) यज्ञगुह्यम् - यस्तर्पयति यज्ञेषु नित्यतृतोऽप्यतृप्तवत् ।
पुरोडाशादिकं भुक्ल्वा तृप्यन्नन्यान् विशेषतः । तं यज्ञविधिगत्यादिविद
एत्र विदन्ति हि । न स्थूलबुद्वयस्तस्मात् यज्ञगुह्यमिति स्मृतः ॥ ( 983)
अन्नम् - एवं निष्पादितानन्तभोक्तृशक्तिसमन्वितैः । भुज्यते यः सदा
सोऽयमन्नमित्युच्यते बुधैः ॥ (984 ) अन्नादः - अतृंस्तांश्च<flag></flag> तथा भु<flag></flag>
स्वयं सोऽन्नाद ईरितः ॥
 
आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः ।
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥ १०६ ॥
 
(985) आत्मयोनिः - भोक्तारमात्मना नित्यं यो योजयति सर्वदा ।
आत्मयोनिः स कथितो वस्वर्गस्सुखभोगदः । (986) स्वयंजात: -
स्वयंजातो यतो जातः प्रार्थनाद्यनपेक्षा ॥ (987) वैखान: - जनित्वा
भवदुःखं यो विविधं खनति स्वतः । वैखानः स च निर्दिष्टः सप्तार्णोऽ-
खिलदुःखहा ॥ (988) सामगायनः - ……<flag></flag> निरताः साम-
गीतिषु । नित्यमुक्ताः सन्ति यस्य स उतः सामगायनः ॥ (989 )
देवकीनन्दनः - देवक्यास्तनयत्वेन परावस्थः स जज्ञिवान् । वात्सल्य