This page has been fully proofread once and needs a second look.

भवशक्तीनां सायंपुष्पवदस्य वै । हासोऽस्ति भोग्यतोल्लासः पुष्पहास
इति स्मृतः ॥ (953) प्रजागर:- रात्रंदिवं प्रजागर्ति सस्येष्विव कृषी-
वलः । भक्तेषु नितरां योऽसौ प्रजागर इहोच्यते ॥ (954) ऊर्ध्वग:-
योऽसौ स्वभावतस्तुङ्गः ऊर्ध्वगः परिकीर्तितः ॥ (955) सत्पथाचार : -
सत्पथाचार इत्युक्तः सन्मार्गे तत्प्रवर्तनात् ॥ (956) प्राणदः – कान्तादि-
विषयासक्त्या नष्टात्मभ्यः कृपावशात् । सदात्मोज्जीवनं योऽसौ
ददाति प्राणदस्त्वयम् ॥ (957) प्रणवः – आत्मोजीवनसंबन्धमुद्दोध्य
प्रणवेन वै पादारविन्दयोस्तान् यः प्रणामयति नित्यशः । प्रणवः स
समाख्यातः सप्तार्णो मोक्षदो मनुः ॥ (958) पण:- स्वाम्यदास्यव्यतीहार-
व्यवहारात् पणः स्मृतः ॥
 
प्रमाण प्राणनिलयः प्राणभृत् प्राणजीवनः ।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥ १०३ ॥
 
(959) प्रमाणम् - परमार्थत्रयीसारप्रत्यायकतया स्वयम् । प्रमाण-
मिति विख्यातः सप्तार्णो मनुरुत्तमः ॥ (960) प्राणनिलयः - यस्मिन्
नित्यं प्रलीयन्ते प्राणा जीवाः सदाऽग्रजे । शकुन्ता इव नीडे स्वे स
प्राणनिलयः स्मृतः ॥ (961) प्राणभृत् - तान् मातृवद्वारयति प्राणभृत्
स स्मृतो बुधैः ॥ (962) प्राणजीवनः - जीवयत्यन्नवज्जीवान् स उक्तः
प्राणजीवनः ॥ (963) तत्त्वम् - सारांशभूतो जगतो योऽसौ तत्त्वमिति
स्मृतः ॥ (964) तत्त्ववित् - वेत्ति यः स्वात्मनस्तत्वं तत्त्ववित् स च
कथ्यते ॥ (965) एकात्मा - शेषी भोक्ताऽभिमानी चाप्येकशिवदचितोस्तु
यः । एकात्मेति स सप्तार्णः सर्वप्राणपदो मनुः ॥ (966) जन्ममृत्युज-
रातिगः - विदचिद्धर्महीनो यो जन्ममृत्युजरातिगः ॥
 
भूर्भुवस्स्वस्तरुस्तारः सविता प्रपितामहः ।
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ १०४ ॥
 
(967) भूर्भुवःस्वस्तरु: – भूरादिभिर्लक्षितानां जीवानां यः समा-
श्रयः । भूर्भुवस्वस्तरुः स स्यात् दशार्णः सर्वदो मनुः ॥ (968) तारः -
संसारतारणात् तेषां तारः स्यात् प्राणिनां सदा ॥ (969) सविता - साक्षा-
जनयिता योऽसौ सर्वस्य सविता स्मृतः ॥ (970) प्रपितामहः - पिता-
महस्य जनकः प्रपितामह उच्यते ॥ (971) यज्ञः - रिक्तानां स स्वयं यज्ञो