This page has been fully proofread once and needs a second look.

सर्वदा शीलमस्येति सृदामर्षीति कीर्तितः ॥ (895) लोकाधिष्ठानम्-
लोकानां मुक्तभाग्यानां लोकाधिष्ठानमाश्रयः ॥ (896) अद्भुतः –
सर्वदा सर्वथा सर्वैर्भुज्यमानोऽप्यपूर्ववत् । स्मयनीयोऽद्भुतः प्रोक्तः ।
 
सनात् सनातनतमः कपिलः कपिरव्ययः ।
स्वस्तिदः स्वस्तिकृत् स्वस्ति स्वस्तिभुक् स्वस्तिदक्षिण ॥
 
(897) सनात्-तेषां संभजनात् सनात् ॥ (898)
सनातनतमः - नित्यनूतनभोग्यत्वात् सनातनतमः स्मृतः ॥ (899 )
कपिल:- विद्युमण्डलमध्यस्थनीलमेघवदुज्ज्वलः । कपिलः स समा-
ख्यातः सप्तवर्णो महामनुः ॥ (900) कपिरव्ययः - नियं सुखं स्वानुभवं
पात्ययं कपिरव्ययः ॥ (901 ) स्वस्तिदः – भक्तेभ्यो मङ्गलं स्वस्ति ददानः
स्वस्तिदः स्मृतः ॥ (902) स्वस्तिकृत् - स्वस्ति भोगाशिषं यस्तु करोति
स्वस्तिकृच्च सः ॥ (903) स्वस्ति - महामङ्गलरूपत्वात् स्वयं स्वस्तीति
कथ्यते ॥ 904) स्वस्तिभुक् - पालनान्मङ्गलस्यैवं स्वस्तिभुक् चेति गम्यते॥
(905) स्वस्तिदक्षिणः - शक्त्याद्या प्रकृतिः स्वस्ति स्वात्मदानं च
दक्षिणा । आत्मार्पणाख्ययागे तु यस्यासौ स्वस्तिदक्षिणः ॥
 
अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः ।
शब्दातिग: शब्दसहः शिशिरः शर्वरीकरः ॥ १७ ॥
 
(905) अरौद्रः - स्वर्णैश्वर्येऽपि सुगुणः शीतलोऽरौद्र उच्यते ॥
(907) कुण्डली - दिव्यभूषणवान् योऽसौ कुण्डलीति प्रकथ्यते ॥
(908) चक्री – नित्यदिव्यायुधः चक्री (909) विक्रमी - स्थाद्विलासी
तु विक्रमी॥ ( 910 ) ऊर्जितशासन:- ब्रह्माद्यलंघ्यस्वाज्ञो यः स
स्यादूर्जितशासनः ॥ (911) शब्दातिग:- अनन्तशाखैराम्नायैः वाग्दे-
व्याऽनन्तभोगिना । वक्तुं ह्यशक्यो महिमा यस्य शब्दातिगोऽस्ति सः ॥
(912) शब्दसह: – अतिभारमिबावास्पष्टं तिरश्चां शब्दमार्तिजम् । सहते
यः शब्दसहो, वस्वर्णां मनुरुत्तमः ॥ (913) शिशिर:- गजेन्द्रपालनार्थं
यः शिशिरस्तरसा गतः ॥ (914) शर्वरीकर:- उच्यते शर्वरीशब्दात्
हिंसापरविदारिणी । पञ्चायुधी करे साऽस्येत्युदितः शर्वरीकरः ॥