This page has been fully proofread once and needs a second look.

(879) प्रीतिवर्धनः - गुणाविष्करणान्नित्यमुत्तरोत्तरतोऽधिकम् । यस्तु
प्रीतिं वर्धयति प्रीतिवर्धन ईरितः ॥
 
विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः ।
रविर्विरोचनस्सूर्यः सविता रविलोचनः ॥ ९४ ॥
 
(880) विहायसगतिः - निरूढभक्तियुक्तैर्हि नित्यं यस्मात्तु गम्यते ।
विहायसः परं व्योम विहायसगतिस्तु सः ॥ (881) ज्योतिः - स्वप्राप्तेः
साधनत्वात् यः स्वयं नित्यं विशेषतः । अर्चिरादिगतेर्ज्योतिः प्रथमं पर्व
कथ्यते ॥ (882) सुरुचिः - अहः शुभं यस्य स वै सुरुचिः परिकीर्तितः ॥
(883) हुतभुग्विभु: - हुतं सुधापरिणतं भुञ्जानश्चन्द्रमास्तथा । विभुः
पूर्णो भवेद्यस्मिन् स वै स्याद्धुतभुग्विभुः ॥ (884) रविः- यश्चोत्तरायण-
द्वारा रूयतेऽत्र प्रशस्यते । स वै रविः समाख्यातः प्राशस्त्यफलदो
मनुः ॥ (885) विरोचनः - अयनद्वयगत्याऽर्कं यो विरोचयति स्वयम् ।
विरोचन इति ख्यातः प्रकाशफलदो मनुः ॥ (886) सूर्यः- वायुस्सरति
यस्माद्धि तस्मात् सूर्यः षडक्षरः ॥ (887) सविता - वृष्टिसस्यादिकं
सूते सवितेति रवेर्मुखात् । (888) रविलोचन:- सूर्यस्य रश्मि-
संबन्धात् विद्युद्वरुणचन्द्रकान् । निरन्तरं लोचयति रविलोचन ईरितः ॥
 
अनन्तहुतभुग्भोक्ता सुखदो नैकदोऽग्रजः ।
अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥ १५ ॥
 
( 889) अनन्त हुतभुग्भोक्ता - मरुत्त्वान् हुतभुक् भोक्ता यो भुनक्ति
प्रजा विधिः । सोऽनन्तहुतभुग्भोक्ता महान्तौ यस्य तौ सदा ॥ (890)
सुखदः - अमानवकरस्पर्शाद्भवमुत्सार्य सत्वरम् । स्वप्राप्तिलक्षणसुखं
ददाति सुखदश्च सः ॥ (891) नैकदः - ब्रह्मालङ्कारदायिन्यो मुक्तेभ्यश्च
परे पदे । दिव्यास्त्वप्सरसो यस्य नैकदस्स च कथ्यते । (892) अग्रजः—
स्वस्याग्रे प्राप्तमुक्तानां सर्वैश्वर्यश्रिया सह । यथापर्यङ्कविद्यं च करुणा-
विष्टचेतसा । तद्भोग्यो जायते यश्च सोऽग्रजः परिकीर्तितः ॥ (893)
अनिर्विण्ण: - महता प्रणिधानेन ह्युत्तार्य भवगर्ततः । प्राप्रय्य च तमा-
त्मानं कृतकृत्यश्व विज्वरः । पश्यन्नशोच्यमेनं यो ह्यनिर्विण्णः स
ईरितः ॥ (894) सदामर्षी -कृतप्रतिकृतं त्वस्य निर्वोढुं मर्षितुं भवेत्