This page has been fully proofread once and needs a second look.

धनुर्धरो धनुर्वेदो दण्डो दमयिताऽदमः ।
अपराजितः सर्वसहो नियन्ता नियमो यमः ॥ ९२ ॥
 
(861) धनुर्धरः - उपासकानां भक्तेर्यः प्रत्यूहविनिवृत्तये । धनुषो
धारको नित्यं स्वयं स स्याद्धनुर्धरः ॥ (862) धनुर्वेदः - सुरेन्द्राद्या
धनुश्शास्त्रं यस्मात् विन्दन्ति स श्रुतः । धनुर्वेदो ह्यष्टवर्णो धनुर्वेद-
प्रदायकः ॥ (863) दण्ड: - वेदधर्मारिष्टतातिनृगदिमुखतः स्वलान् ।
दण्डनीत्या दण्डयतीत्यसौ दण्डः प्रकीर्तित: ॥ (864) दमयिता-
ताच्छील्याद्रावणादीनां हर्ता दमयिता स्वयम् । (865) अदमः-
कश्विद्वमयिता नास्ति यस्यासावदमः स्मृतः ॥ ( 866) अपराजितः -
क्वचित् कदाचित् कस्माञ्च्चित् सर्वतोमुखशासने । यस्य प्रतिहतिर्नास्ति
स वै स्यादपराजितः ॥ (867) सर्वसहः - मन्दाधिकारिणां सर्वमारा-
ध्यत्वेन दैवतम् । बिभर्ति सहते यस्तु स सर्वसह ईरितः ॥ (868)
नियन्ता - दैवतेषु च सर्वेषु तत्तदिच्छान् प्ररोचयन् । मन्दाधिकारिणो
योऽसौ नियन्ता स्यान्नियच्छति ॥ (869) नियमः - भोगादिकं नियम्या-
स्मिन् लम्भयन् नियमः स्मृतः ॥ (870) यमः - यमादीन् यच्छति यमः
तत्तत्फलनियामकान् ॥
 
सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः ।
अभिप्रायः प्रियाऽर्होर्हः प्रियकृत् प्रीतिवर्धनः ॥ ९३ ॥
 
(871) सत्त्ववान् – प्रकाशलाघवसुखसंपदा मोक्षसाधनम् ।
सत्त्वं साक्षादधिष्ठेयं यस्यासौ सत्यवान् श्रुतः ॥ (872) सात्त्विक :-
विज्ञानैश्वर्यवैराग्यधर्मरूपफलं स्वयम् । नियम्यार्हति सत्त्वं यः सात्विकः
परिकीर्तितः ॥ (873) सत्यः - यथार्थवैभवः सत्त्वं यः श्रुतः सात्त्विक-
शास्त्रतः ॥ (874) सत्यधर्मपरायणः - उपाधिरहितस्सर्वमुख्यो धर्मः परा-
यणम् । परमप्रीणनो यस्य सत्यधर्मपरायणः ॥ (875) अभिप्रायः – स्वच्छेन
धर्मनिष्टेन योऽभितः प्रेयते पुनः । निरुपाधिकमुद्देश्यतयाऽसावभि-
संहितः । अभिप्रायः इति ज्ञेयो वस्वर्णो मनुरुत्तमः ॥ (876) प्रियार्ह: -
ऐदमर्थ्यज्ञानिनं यः प्रियार्हः: प्रियमर्हति ॥ (877) अर्हः - अनन्येच्छावतां
पुंसां योग्यः सोऽर्ह इति स्मृतः ॥ (878) प्रियकृत् - भक्तान् अन्यपराने वं
स्वप्रियान् कुरुते सदा । छन्दानुवर्तनेनेति प्रियकृत् स निगद्यते ॥