This page has not been fully proofread.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
धनुर्धरो धनुर्वेदो दण्डो दमयिताऽदमः ।
अपराजितः सर्वसहो नियन्ता नियमो यमः ॥ ९२ ॥
 
(861) धनुर्धरः - उपासकानां भक्तेर्यः प्रत्यूहविनिवृत्तये । धनुषो
धारको नित्यं स्वयं स स्याद्धनुर्धरः ॥ (862) धनुर्वेदः - सुरेन्द्राद्या
धनुश्शास्त्रं यस्मात् विन्दन्ति स श्रुतः । धनुर्वेद ह्यष्टवर्णा धनुर्वेद-
प्रदायकः ॥ (863) दण्ड:- वेदधर्मारिष्टतातिनृगदिमुवतः खलान् ।
दण्डनीत्या दण्डयतीत्यसौ दण्डः प्रकीर्तित: ॥ (864) दमयिता-
ताच्छील्याद्रावणादीनां हर्ता दमयिता स्वयम् । (865) अदमः-
करिवहमयिता नास्ति यस्यासावदमः स्मृतः ॥ ( 866) अपराजितः -
डचित् कदाचित् कस्माश्चित् सर्वतोमुखशासने । यस्य प्रतिहतिर्नास्ति
स वै स्याइपराजितः ॥ (867) सर्वसहः - मन्दाधिकारिणां सर्वमारा-
ध्यत्वेन दैवतम् । बिभर्ति सहते यस्तु स सर्वसह ईरितः ॥ (868)
नियन्ता - दैवतेषु च सर्वेषु तत्तदिच्छान् प्ररोचयन् । मन्दाधिकारिणो
योऽसौ नियन्ता स्यात्रियच्छति ॥ (869) नियमः - भोगादिकं नियम्या-
स्मिन् लम्भयन् नियमः स्मृतः ॥ (870) यमः - यमादीन् यच्छति यमः
सतत्फलनियामकान् ॥
 
-
 
सत्तवान् सात्तिकः सत्यः सत्यधर्मपरायणः ।
 

 
अभिप्रायः प्रियाऽर्हः प्रियकृत् प्रीतिवर्धनः ॥ ९३ ॥
 
-
 
-
 
-
 
(871) सत्ववान् – प्रकाशलाघवसुखसंपदा मोक्षसाधनम् ।
सवं साक्षादधिष्ठेयं यस्यासौ सत्यवान् श्रुतः ॥ (872) सात्विक :-
विज्ञानैश्वर्य वैराग्यधर्मरूपफलं स्वयम् । नियम्याईति सत्त्वं यः सात्विकः
परिकीर्तितः ॥ (873) सत्यः - यथार्थवैभवः सत्यः श्रुतः सात्विक
शास्त्रतः ॥ (874) सत्यधर्मपरायणः - उपाधिरहितस्सर्वमुख्यो धर्मः परा-
यणम् । परमप्रीणनो यस्य सत्यधर्मपरायणः ॥ (875) अभिप्रायः – स्वच्छेन
धर्मनिष्टेन योऽभितः प्रेयते पुनः । निरुपाधिकमुद्देश्यतयाऽसावभि-
संहितः । अभिप्रायः इति ज्ञेयो वस्वर्णो मनुरुत्तमः ॥ (876) प्रियाह:-
ऐदमर्थ्यशामिनं यः प्रियाई: प्रियमर्हति ॥ (877) अर्हः - अनन्येच्छावतां
पुंसां योग्यः सोऽर्ह इति स्मृतः ॥ (878) प्रियकृत् - भक्तान् अन्यपराने त्रं
स्वप्रियान् कुरुते सदा । छन्दानुवर्तनेनेति प्रियकृत् स निगद्यते ॥