This page has been fully proofread once and needs a second look.

भूतसर्वावस्थमिदं जगत् । कुर्वन् बिभर्ति नित्यं यो गुणभृत् स स्मृतो
बुधैः ॥ (844) निर्गुणः - स्थितोऽप्यतद्वश्यतया जगत्यस्पर्शनात् गुणैः ।
उक्तः स निर्गुण इति सप्तार्णः पावनत्वदः ॥ (845) महान्- -
भूम्यां महानीर इव ह्युन्मज्जननिमज्जनात् । महान् प्राकाम्यसंपूर्त्या
षडर्णस्तु महत्त्वदः ॥ (846) अधृतः - यश्वानियाम्यः केनापि ह्यधृतः
स तु कीर्तितः ॥ (847) स्वधृतः - स्वभावतो धृतैश्वर्यः स्वधृतः परि-
कीर्तितः ॥ (848) स्वास्यः - आसनं शोभनं यस्य स स्वास्य इति
कथ्यते ॥ (849) प्राग्वंशः - अनादिमुकाः प्राञ्चो ये तेषामुद्भवभूमिदः ।
प्राग्वंश इति विख्यातः सप्तार्णो मनुरुत्तमः ॥ (850) वंशवर्धनः-
नित्यसिद्धस्य वर्गो यो वंश सन्तानलक्षणम् । तं वर्धयति यश्वासौ
वंशवर्धन उच्यते ॥
 
भारभृत् कथितो योगी योगीशः सर्वकामदः ।
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥ ९१ ॥
 
(851) भारभृत् - मुक्तानां बन्धमोक्षादिभारस्य भरणाद्धि सः । भार-
भृत् सप्तवर्ण: स्यात् कार्यनिर्वाहशक्तिदः ॥ (852) कथितः - उक्तः
शास्त्रेषु कथितो यस्सर्वगुणवत्तया ॥ (853) योगी-योगो ह्यघटितार्थ-
स्य घटनं तेन सर्वथा । यस्यस्ति नित्यसंबन्धः स योगी परि-
कीर्तितः ॥ (854) योगीशः- योगीशः सनकादीनां योगिनां धुर्य उच्यते ॥
(855) सर्वकामदः – अणिमादीन् सर्वकामान् योगस्स्लितयोगिनाम् ।
अन्तरायतातया मुक्तेर्ददत् स्यात् सर्वकामदः ॥ (856) आश्रमः - तेषां<flag></flag>
योगभ्रष्टानां हेतुर्………………………………………।वैष्णवसद्मसु । सुभिक्षपरविद्येषु विश्रान्तेराश्रमः
स्मृतः ॥ ( 857 ) श्रमण: - अक्षीण पूर्वसंस्कारैर्जन्मनाऽनुभवेन सः ।
श्रमतेऽभ्यस्यतेऽनेन श्रमणः परिकीर्तितः ॥ (853) क्षःषामः - योगाभि-<flag></flag>
ख्यायमात्रेण योगभ्रष्टा अपि स्वयम् । यस्मात् क्षन्ते सानो स क्षामो भवन्ब्धित
-
रणाय
वै ॥ (859) सुर्णः -प्रत्यापन्धो समाधीन् यः साधेः कः ।
'
समधिः परिकीर्तितः ।
यते तमसः पारं सुरं सुवर्गःर्णः स च कोर्तेःकीर्तितः ॥ (860) वायुवाहनः-
वायुता गत्वरेणेव कर्मतः पतितान् सतः । गरुत्मता वानता वायति यः स
सस्याद्वायुवाहनः ॥
7
 
-
 
-