This page has been fully proofread once and needs a second look.

एष स्यात् उः पृषोदरनीतितः । न्यग्रोधोदुम्बर इति ह्येकं नाम प्रकीर्तितम् ।
अत्युच्छ्रितानां सेव्यो योऽप्यतिनीचानुवर्तनः । न्यग्रोधोदुम्बरः स
स्यात् दशार्णः सर्वसिद्धिदः । (828) अश्वत्थः - अनित्यमिन्द्रादिपदं येषां
तेष्वपि तिष्ठति । नियामकत्वेनेत्येवमश्वत्थ इति कीर्तितः । (829) चाणू-
रान्ध्रनिषूदनः- चाणूराख्यासुरं योऽरिं मल्लं सूदितवानसौ । प्रोच्यते
मुनिभिर्नित्यं चाणूरान्ध्रनिषूदनः ॥
 
सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः ।
अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥ ८९ ॥
 
(830) सहसार्चि:- सूर्ये सहस्रमर्चींषि शोषणादिषु हेतवः ।
अभिविष्टानि येनासौ सहस्रार्चिरिति स्मृतः ॥ (831) सप्तजिह्वः -
यस्मात् काल्यादयो जिह्वा अग्नेः सप्त भवन्ति च । स सप्तजिह्व
आख्यातो लोकसन्तर्पणे रतः ॥ (832) सप्तैधाः - वानस्पत्याश्च
समिधः सप्तसंस्थास्तथाऽथवा । इष्टापूर्तादिकर्माणि सप्तैधाः सन्ति
यस्य सः ॥ (833) सप्तवाहनः – यो वहत्यनिलस्कन्धान् सप्तासौ
सप्तवाहनः । वाहनानि रवेरस्य सप्त वा सप्तवाहनः । (834) अमूर्तिः–
स्थूलभौतिकमूर्तिभ्यो व्यावृत्तोऽमूर्तिरुच्यते ॥ (835) अनघः - जीवेभ्यः
कर्मवश्येभ्यो व्यावृत्तश्चानघः स्मृतः ॥ (836) अचिन्त्यः- अचिन्त्यो
दुर्निरूप: स्यात् मुक्ताद्युपमयापि सः ॥ (837) भयकृत् - आज्ञातिलं-
घिनां पुंसां नरकादिभयङ्करः । भयकृत् स समाख्यातः सप्तार्णो भव-
वर्धनः ॥ (838 ) भयनाशनः– अज्ञानुवर्तिनां स्वस्य भयं नाशयतीति सः ।
भयनाशन इत्युक्तो नवार्णः कर्मकारकः ॥
 
अणुबृहत् कृशस्स्थूला गुणभृन्निगुणा महान् ।
अधृतस्स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥ ९० ॥
 
(839) अणु: – अतिसूक्ष्महृदाकाशाव्यक्तजीवप्रवेशने । शक्तिमा-
नणुरित्युक्तः षडर्णः सर्वशक्तिदः ॥ (840) बृहत् - विपुलं परमव्योम
महिम्ना चुलकीकृतम् । येन नाम्ना बृहत् स स्यात् षडर्णश्च बृहत्त्वदः ॥
(841) कृश: – सर्वत्राव्याहतगतिः लघिम्ना कृश ईरितः ॥ (842)
स्थूलः– स्थित्वैकत्राखिलं स्प्रष्टुं शक्तिर्या महती सया । तय प्रकृष्टया
शक्त्य विशिष्टः स्थूल उच्यते ॥ (843) गुणभृत् - संकल्पात् स्वगुणी-