This page has been fully proofread once and needs a second look.

४८
 
श्रीविष्णुसहस्त्रनामस्तोत्रम्
 
-
 
एष स्यात् उः पृषोदरनीतितः । न्यग्रोधोदुम्बर इति ह्येकं नाम प्रकीर्तितम् ।

अत्युच्छ्रितानां सेव्यो योऽप्यतिनीचानुवर्तनः । न्यग्रोधोदुम्बरः स

स्यात् दशार्णः सर्वसिद्धिदः । (828) अश्वत्थः - अनित्यमिन्द्रादिपदं येषां

तेष्वपि तिष्ठति । नियामकत्वेनेत्येवमश्वत्थ इति कीर्तितः । (829) चारण-
णू-
रान्ध्रनिषूदनः- चारगुणूराख्यासुरं योऽरिं मल्लं सूदितवानसौ । प्रोच्यते

मुनिभिर्नित्यं चारनूणूरान्ध्रनिषूदनः ॥
 

 

 
सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः ।
 

अमूर्तिरन घोऽचिन्त्यो भयकृद्भयनाशनः ॥ ८९ ॥
 
-
 

 
(830) सहसार्चि:- सूर्ये सहस्रमर्चींषि शोषणादिषु हेतवः ।

अभिविष्टानि येनासौ सहस्रार्चिरिति स्मृतः ॥ (831) सप्तजिह्वः
-
यस्मात् काल्यादयो जिह्वा अग्नेः सप्त भवन्ति च । स सप्तजिह्व

आख्यातो लोकसन्तर्पणे रतः ॥ (832) सप्तैध ( :धाः - वानस्पत्याश्च

समिधः सप्तसंस्थास्तथाऽर्थथंवा । इष्टापूर्तादिकर्माणि सप्तैधाः सन्ति

यस्य सः ॥ (833) सप्तवाहनः – यो वहत्यनिलस्कन्धान् सप्तासौ

सप्तवाहनः । वाहनानि रवेरस्य सप्त वा सप्तवाहनः । (834) अमूर्तिः–

स्थूलभौतिकमूर्तिभ्यो व्यावृत्तोऽमूर्तिरुच्यते ॥ (835) अनघः - जीवेभ्यः

कर्मवश्येभ्यो व्यावृत्तश्चानघः स्मृतः ॥ (836) अचिन्त्यः- अचिन्त्यो

दुर्निरूप: स्यात् मुक्ताद्युपमयापि सः ॥ (837) भयकृत् - आज्ञातिलं.
-
घिनां पुंसां नरकादिभयङ्करः । भयकृत् स समाख्यातः सप्तार्णो भव-

वर्धनः ॥ (838 ) भयनाशनः– अज्ञानुवर्तिनां स्वस्य भयं नाशयतीति सः ।

भयनाशन इत्युक्तो नवार्णः कर्मकारकः ॥
 
-
 

 
अणुबृहत् कृशस्स्थूला गुणभृन्निगुणा महान् ।

अधृतस्स्वधृतः स्वास्यः प्राग्वंशो वंशर्धनः ॥ ९० ॥
 
-
 
-
 

 
(839) अणु: – अतिसूक्ष्महृदाकाशाव्यक्तजीवप्रवेशने । शक्तिमा-

युणुरित्युक्तः डर्णः सर्वशक्तिदः ॥ (840) बृहत् - विपुलं परमव्योम

महिम्ना चुलकीकृतम् । येन नाम्ना बृहत् स स्यात् डर्णश्च बृहत्त्वदः ॥

(841) कृश: – सर्वत्राव्याहतगतिः लघिम्ना कृश ईरितः ॥ (842)

स्थूलः– स्थित्वैकञात्राखिलं स्प्रष्टुं शक्तिर्या महती सया । तय प्रकृष्टया

शक्त्य विशिष्टः स्थूल उच्यते ॥ (843) गुणभृत् - संकल्पात् स्वगुणी-