This page has been fully proofread once and needs a second look.

ज्ञातिलंघनात् । स्वाज्ञानुवर्तिनां पुंसां अनुग्राहंकतोच्यते। महाभूतो
महात्मानः स्वभूता यस्य स श्रुतः (812) महानिधिः - महात्मानो
निधिरिव प्रिया यस्य महानिधिः ॥
 
कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः ।
अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥ ८७ ॥
 
(813) कुमुदः- प्राकृते मण्डले भूमौ कुमुदः स्यात् सः मोदनात् ।
(814) कुन्दर:- मुक्तिभूमिप्रदा कुन्दसुमवद्विमला, मतिः कुन्दम्, तत्<flag></flag>
दत्तेसौ कुन्दरः कीर्तितोऽथवा । कुमव्ययं पापवाचि कुन्दरस्तस्य
वारणात् ॥ (815) कुन्दः - भक्तेभ्यः परभक्त्यादिप्रदानात् कुन्द उच्यते
विदारितं पापजातं कुन्दः शोधयतीति वा ॥ (816) पर्जन्यः – स्वतत्त्व ।
<flag></flag>अनेन नित्यं तापत्रयापहा । पर्जन्य: स (817) पवन:- तदर्थञ्च<flag></flag>
वते पवनश्च सः ॥ (818) अनिलः – स्वस्य यस्मात् प्रेरकोऽन्यः प्रपन्नानु-
<flag></flag>हे सदा । नापेक्ष्यः सोऽनिलः प्रोक्तो मुन्यर्णो मनुरुत्तमः ॥ (819 )
अमृताश:–यश्चाशयति भक्तान् वै स्वगुणामृतमादरात् । अमृताशः
इत्युक्तः श्रुतपीयूषदो मनुः ॥ (820) अमृतवपुः - वपुर्यस्यामृतसमं
चामृतवपुः स्मृतः ॥ (821 ) सर्वज्ञः – शक्याशक्यादिकं सर्वं साध्या-
साध्यादिकं च यः । भक्तानामनुसन्धत्ते स सर्वज्ञ इतीरितः ॥ (822)
सर्वतोमुखः–तत्तन्नियममुत्सृज्य यो ज्ञातुं शक्यते बुधैः । व्याजेन येन
स स्मृतः सर्वतोमुखः ॥
 
सुलभः सुतः सिद्धः शुत्रजिच्छत्रुतापनः ।
न्यग्रोधोदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ॥ ८८ ॥
 
(823) सुलभः- सर्वेषां सुखलभ्यत्वात् सुलभः परिकीर्तितः ॥ (824)
सुव्रतः - येन केनापि विष्टानां सर्वथा परिपालनम् । दृढं सुष्ठु व्रतं यस्य
सुव्रत उदाहृतः (825) सिद्धः - अयत्नसाध्यः सिद्धः स्यात् स्वतत्त्व-
त्थतिवेदिनाम् ॥ (826) शत्रुजिच्छत्रुतापनः- पुरुकुत्सककुत्स्थाद्यैश्शत्रु-
द्भिस्स्वतेजसा । आप्यायितैरपि परान् यस्तापयति नित्यशः । अयमे
पदेनोक्तः शत्रुजिच्छत्रुतापनः ॥ (827) न्यग्रोधोदुम्बरः - न्यग्भूतैः
गतैः स्वानुग्रहौन्मुख्येन रुद्ध्यते । यो व्यवस्थाप्यते नित्यं न्यग्रोधस्स
दाहृतः ॥ गुणत्रयादुद्गतं यत् परमं धाम चाम्बरम् । यस्योदुम्बर