This page has been fully proofread once and needs a second look.

महाकर्मा – एवं न्यायप्रवृत्तत्वात् महाकर्मेति कब्धते ॥ (794) कृतकर्मा–
स्वानुष्ठिततदाचारः कृतकर्मेति कथ्यते ॥ (795) कृतागमः - कृतवुबुद्धाद्या-
गमत्वात् कृतागम उदाहृतः ॥
 
उद्भवः सुन्दरः सुन्दो रत्ननाभस्सुलोचनः ।
अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ॥ ८५ ॥
 
(796) उद्भवः - मोक्षोपदेशनटनात् भवादुद्गतवत् स्थितः । उद्भवः
स तु वज्ञेयः सप्तार्णः पापनाशकः । (797) सुन्दर:- स स्यात् सुन्दर
उद्दिष्टः तेषां दृष्टिमनोहर : ( 798) सुन्दः - विश्वातिशायिसौभाग्यशालि
त्वात् स उनत्ति यत् । सुष्ठु चेतः क्लेदयति रक्षसां सुन्द ईरितः ॥ ( 799 )
रत्ननाभः - स रत्ननाभ इत्युक्तः यः पाण्डित्यविडम्बनात् । मृष्टोदर-
व्यक्तरम्यनाभिः सत्फलदो मनुः ॥ (800) सुलोचन:- सुलोचन इति
प्रोक्तो मायामोहोर्जितेक्षणः ॥ (801) अर्क:- अत्यन्तधार्मिक इति
स्तुतस्तैरर्क ईरितः ॥ (802) वाजसनि: - अन्नादीनैहिकानेव यस्मान्म-
ह्यां भजन्तिते । स वाजसनिरित्युक्तः वस्वर्णोऽन्नप्रदो मनुः ॥ (803)
शृङ्गी–करेऽस्ति पिञ्छिका यस्य शृङ्ग्यहिंसाविडम्बनात् ॥ (804)
जयन्तः– सर्वप्रपञ्चमिथ्यात्वसंविदात्मत्ववादतः । आस्तिक्यवादिनां
जेता जयन्त इति कथ्यते ॥ (805) सर्वविज्जयी - यस्य जय्याश्च सर्वज्ञाः
सः उक्तः सर्वविज्जयी ॥
 
सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।
महाह्रदो महागर्तो महाभूतो महानिधिः ॥ ८६ ॥
 
(806) सुवर्णबिन्दुः - बिन्दत्यपलपत्यास्तिकत्वं पटुभिरक्षरैः
सुवर्णबिन्दुर्गदितः नवार्णः पापनाशनः ॥ (807) अक्षोभ्यः - गभीरा-
शयवत्त्वेन ह्यविकार्यतया परैः । अक्षोभ्यः सप्तवर्णः स्यादक्षोभ्यत्वप्रदायकः ॥
(808) सर्ववागीश्वरेश्वर:- वादिताया गतः पारं सर्ववागीश्वरेश्वरः ॥
वाग्मितायाश्च सर्वेशः रव्यर्णो वाक्प्रदो मनुः (809) महाह्रदः-
मज्जन्ति पापास्तृष्यन्ति पुण्या इति महाह्रदः ॥ (810) महागर्त :-
पापाक्रान्ततया नष्टप्रज्ञानां रौरवादयः । गर्ता यस्मान्महागर्तः स
स्मृतो वसुवर्णगः ॥ ( 811) महाभूतः - निग्राहकत्वं कथितं स्वस्यैवा