This page has been fully proofread once and needs a second look.

४६
 
श्रीविष्णुसहस्रनामस्तोत्रम्
 
www.p
 
महाकर्मा – एवं न्यायप्रवृत्तत्वात् महाकर्मेति कब्धते ॥ (794) कृतकर्मा–

स्वानुष्ठिततदाचारः कृतकर्मेति कथ्यते ॥ (795) कृता गमः - कृतवुद्धाद्या-

गमत्वात् कृतागम उदाहृतः ॥
 

 
उद्भवः सुन्दरः सुन्दो रत्ननाभस्सुलोचनः ।

अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ॥ ८५ ॥
 
-
 
-
 

 
(796) उद्भवः - मोक्षोपदेशनटनात् भवादुद्गतवत् स्थितः । उद्भवः

स तु वज्ञेयः सप्ताशी:र्णः पापनाशकः । (797) सुन्दर:- स स्यात् सुन्दर

उद्दिष्टः तेषां दृष्टिमनोहर : ( 798) सुन्दः - विश्वातिशायिसौभाग्यशालि

त्वात् स उनत्ति यत् । सुष्ठु चेतः क्लेदयति रक्षसां सुन्द ईरितः ॥ ( 799 )

रत्ननाभः - स रत्ननाभ इत्युक्तः यः पाण्डित्यविडम्नात् । मृष्टोदर-

व्यक्तरम्यनाभिः सत्फलदो मनुः ॥ (800) सुलोचन:- सुलोचन इति

प्रोक्तो मायामोहोर्जितेक्षणः ॥ (801) अर्क:- अत्यन्तधार्मिक इति

स्तुतस्तैरर्क ईरितः ॥ (802) वाजसनि: - अन्नादी नैहिकानेव यस्मान्म-

ह्यां भजन्तिते । स वाजसनिरित्युक्तः वस्वर्णोऽन्नप्रदो मनुः ॥ (803)

शृ
ङ्गी–करेऽस्ति पिञ्छिका यस्य शृङ्ग्यहिंसाविडम्नात् ॥ (804
)
जयन्तः– सर्वप्रपञ्चमिथ्यात्वसंविदात्मत्ववादतः । आस्तिक्यवादिनां

जेता जयन्त इति कथ्यते ॥ (805) सर्वविज्जयी - यस्य जय्याश्च सर्वज्ञाः

सः उक्तः सर्वविज्जयी ॥
 
——
 

 

 
सुवर्णविबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।
 

महाह्रदो महागर्तो महाभूतो महानिधिः ॥ ८६ ॥
 

 

 
(806) सुवर्णविन्दु - विबिन्दुः - बिन्दत्यपलपत्यास्तिकत्वं पटभिरक्ष रैः

सुवर्णविबिन्दुर्गदितः नवार्णः पापनाशनः ॥ (807) अक्षोभ्यः - गभीरा-

शयवत्त्वेन ह्यविकार्यतया परैः । अक्षोभ्यः सप्तवर्णः स्यादक्षोभ्यत्वप्रदायकः ॥

(808) सर्ववागीश्वरेश्वर:- वादिताया गतः पारं सर्ववागीश्वरेश्वरः ॥

वाग्मितायाश्च सर्वेशः रव्यर्णो वाक्प्रदो मनुः (809) महाह्रदः-

मज्
जन्ति पापास्तृप्ष्यन्ति पुण्या इति महाह्रदः ॥ (810) महागर्त :-

पापाक्रान्ततया नष्टप्रज्ञानां रौरवादयः । गर्ता यस्मान्महागर्तः स

स्मृतो वसुवर्णगः ॥ ( 811) महाभूतः - निग्राहकत्वं कथितं स्वस्यैषा-
WON
 
वा