This page has been fully proofread once and needs a second look.

चतुर्वेदवित् – चतुर्वेदप्राज्ञनिष्ठा वित्तिर्यद्विषये स तु । चतुर्वेदविदित्युक्त
नवार्णो निगमप्रदः ॥ ( 778) एकपात् – एकांशेनावतीर्णत्वात् एक-
पादिति कथ्यते ॥
 
समावर्तो निवृत्तामा दुर्जयो दुरतिक्रमः ।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥ ८३ ॥
 
(779)- समावर्तः - एतादृशं हि सर्वत्र सर्वदा सर्वथापि
च । व्यूहस्य विभवस्यापि यस्यास्त्यावर्तनं स तु । समावर्तः
समाख्यातः वस्वर्णो जन्मनाशकः ॥ (780) निवृत्तात्मा - निवृत्तात्मा
मनो यस्य सदा जगदमिश्रितम् ॥ (781) दुर्जय: - शक्तया देवमनुष्या-
द्यैर्वशीकर्तुं न शक्यते । अन्वेष्टुं वापि यः स स्यात् दुर्जयः सप्तवर्णकः ॥
(782) दुरतिक्रमः – अतिक्रम्य स्वपादाजं सर्वेषां प्रापकान्तरम् । नास्तीति
सर्वपापघ्नः स स्मृतो दुरतिक्रमः ॥ (783) दुर्लभः- अजितेन्द्रियदुष्प्रापो
दुर्लभः स च कथ्यते ॥ (784) दुर्गमः - नेत्रदुर्बलवृत्तीनां मध्याह्नद्युम-
णेर्यथा । दुष्प्रापाधृष्यतेजस्त्वात् दुर्गमः परिकीर्तितः ॥ (785) दुर्ग:-
दुष्प्रवेशतया दुर्गः पापिभिः सर्वथैव सः । (786) दुरावास:- दुष्करा
वासभूमित्वात् दुरावास इतीरितः (787) दुरारिहा - दुरारिणस्तु
दुर्मार्गगामिनस्तान् निहन्ति यः । त्रयीमार्गत्याजनाद्यै: स स्यान्नित्यं
दुरारिहा ॥
 
शुभाङ्गो लोकसारङ्गसुतन्तुस्तन्तुवर्धनः ।
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ ८४ ॥
 
(788) शुभाङ्गः – मायामोहनवेषेण विप्रलभ्यासुरानपि । स्थितः
। प्रत्ययितस्तेषां शुभाङ्ग इति कथ्यते ॥ (789) लोकसारङ्गः - न्याया-
पि
<flag></flag>पेतं यत् सांर भोगनिर्वाणवर्त्म सः । तद्गच्छति सदा लोके लोकसारङ्ग
ईरितः (790) सुतन्तुः – तन्तुः कृत्रिमशान्त्यादिरूपः तद्ग्रहणाय वै ।
शोभनोऽस्य सुतन्तुः स सप्तार्णो दोषनाशकः ॥ (791) तन्तुवर्धनः-
अंशुभि: पापरुचिभिः तन्तुं संसारनामकम् । सन्तनोति सदा यः
तन्तुवर्धन ईरितः ॥ (792) इन्द्रकर्मा - प्रपन्नेन्द्राद्यर्थतयां दैत्यसंहार-<flag></flag>
। कर्म यस्यास्तीन्द्रकर्मा सोऽष्टार्णो मनुरुत्तमः ॥ (793)
 
-