This page has not been fully proofread.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
-
 
मूल हि लोकस्वामित्वमित्यतः । स्वाभाविकाच संबन्धात् लोकनाथ
इतीरितः ॥ (741) माधवः - लोकनाथत्वसंबन्धः श्रीमतश्चेति माधवः ।
मधोर्वशोद्भवत्वाच्च माधवः परिकीर्तितः ॥ (742) भक्तवत्सलः-
विशेषं वक्ति भक्तेषु योऽसौ स्यात् भक्तवत्सलः ॥
 
सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी ।
 
वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥ ७९ ॥
 
-
 
(743) सुवर्णवर्ण:-
गुणवत्स्स्वर्णनिकपनिर्दोषोजवलवर्णतः । सुवर्ण
वर्ण इत्युक्तः नवार्णो भक्तिकामदः ॥ (744) हेमाङ्ग – वर्णाधिष्ठान
मङ्गञ्च दिव्यसत्त्वमयं यतः । अतो हेमाङ्ग इत्युक्तः सप्तार्णो हेम-
वर्णदः ॥ (745) वराङ्गः – देवकीप्रीतये दिव्यं मङ्गलं दिव्यलाञ्छनम् ।
आविष्कृतं येन रूपं वराङ्गस्स तु कथ्यते ॥ (746) चन्दनाङ्गदी-
भूषणान्यङ्गदादीनि सदाह्लादकराणि च । सन्ति यस्य हि नित्यं तु स
स्मृतः चन्दनाङ्गदी ॥ (747) वीरहा- समूलं पूतनादीन् वै यो जघान स
वीरहा ॥ (748) विषमः - भीतिक्षेमकरत्वाद्वि कुटिलाकुटिलात्मसु ।
विषमः स तु विख्यातः (749) शून्यः - शून्य: स्यात् दोषवर्जितः ।
(750) घृताशी :- गोपानां सझगव्ये वा जगदाप्यायनेऽथ वा । घृते त्वा-
शास्तिरस्येति घृताशीः परिकीर्तितः ॥ (751) अचल:- दुर्योधनाद्य-
भेद्यत्वात् अचलः परिकीर्तितः ॥ (752) चलः - सत्यादेः पाण्डवार्थे
स चलतीति चलः स्मृतः ॥
 
-
 
-
 
अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृत् ।
सुमेधा मेधजो धन्यस्सत्यमेधा धराधरः ॥ ८० ॥
 
-
 
-
 
-
 
(753) अमानी - श्रमानी योऽनहंकारी भक्तेष्वेव स ईरितः ॥
(754) मानदः - स मानदोऽर्जुनादिभ्यो मानं राज्यं च दत्तवान् ॥
(755) मान्यः – मान्यस्तदीयत्वेन स्यात् संमन्तव्यस्सदेति सः ॥
(756) लोकस्वामी – लोकः सर्वः स्वमस्येति लोकस्वामीति कथ्यते ।
(757) त्रिलोकधृत् - लोकत्रयस्य धरणात् स त्रिलोकदीरितः । (758)
सुमेधा:- बुद्धिः सु शोभना यस्य सुमेधाः परिकीर्तितः ॥ (759)
मेधजः - देवकीकृतपुत्रीयव्रतयज्ञे च यस्य वै । जनिस्तु मेधजः स स्यात
सप्तार्णः पुत्रदायकः ॥ (760) धन्यः – धन्यस्तु देवकीजन्मधनलाभादय
 
-