This page has been fully proofread once and needs a second look.

श्रीविष्णुसहस्रनामस्तोत्रम्
सङ्
सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणम् ( णः ) ?

शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ ७५ ॥
 
-
 

 
(704) सद्गतिः - उत्पन्न एव कंसादिकृतबाधापनोदनात् । सतां

प्राप्यतया चैव सद्गतिः समुदाहृतः ॥ (705) सत्कृतिः - रासक्रीडादिकृतयः

सत्या यस्य स सत्कृतिः ॥ (706) सत्ता – स्वयमेव सतां सत्ता

यत् तत् सत्तेति कीर्त्यते ॥ (707) सद्भुभूतिः सतां पुत्रकलवात्रादिभूत्या

सद्भुभूतिरुच्यते ॥ (708) सम्त्परायणम् (ण:) – सतां पर स्यादयनं सत्परायण

मीश्वरः । यद्वाऽयनं परं सन्तो यस्यासौ सत्परायणः ॥ (709) –

शूरसेनः- भूभारहरणार्थाय यादवाः पाण्डवाश्च ये । शुशूराः सहायास्ते
-
ऽस्येति शूरसेनः स कथ्यते ॥ (710) यदुश्रेष्ट:- मग्नं तु यादवं वंश-

मुद्धरिष्यति यश्च सः । यदु श्रेष्ठ ति ख्यातः वस्वर्णो वंशवर्धनः ॥ (711)

सन्निवास:- सनकादिनिवासो हि मनुष्यत्वेऽपि यः सदा । सन्निवास:

स विज्ञेयो ह्यष्टार्णः स्थानदायकः ॥ (712) सुयामुन: - गोपीभिर्य-

मुनायां तु शोभनं पावनं महत् । जलक्रीडादि यस्येति सुयामुन

इतीरितः ॥
 
-
 

 
भूतावासो वासुदेवः सर्वासुनिलयोऽनलः ।

दर्पहा दर्पदो (S) दृप्तो दुर्रोऽथापराजितः ॥ ७६ ॥
 
-
 

 
(713) भूतावास: - यस्मिन् वसन्ति भूतानि भूतावासः स

कथ्यते । (714) वासुदेवः - वसुदेवापत्यतया द्वादशाध्यात्ममञ्जसा ।

नियच्छति सदा यस्तु वासुदेवः स ईरितः ॥ (715) सर्वासुनिलयः -

सर्वासुनिलयः स स्यात् सर्वप्राणावलम्बनम् ॥ (716) अनलः - सर्वे

कृत्वापि गोपानां न च किञ्चिन्मया कृतम् । इत्येवमवितृप्तो यः सोऽनलः

परिकीर्तितः ॥ स्वभक्तेभ्यः कृतं मन्तुं नालं सोढुं स वाऽनलः ॥ (717)

दर्पहा - गोवर्धनस्योद्धरणे पारिजातपरिग्रहे। बाणदोर्दण्डण्डानां खण्ड-

नादौ तदा तदा । देवानां वै दर्पमालं हतवान् यः स दर्पहा ॥ (718)

दर्पदः- मधुरायां यादवेभ्यो मधुपानादिना ततः । दप च दत्र्त्तवान् योऽसौ

दर्पदः परिकीर्तितः ॥ (719) अदप्तः – अथाप्यगर्वितो योऽसौ अदृप्तः
– अथाप्यगर्वितो योऽसौ अदृप्तः
स उदाहृतः । दृप्तः - बाललीलाप्रसङ्गेषु यशोदानन्दलालनात् । सोदृप्तो मत्ते-
6