This page has been fully proofread once and needs a second look.

स्तव्यः स्ववप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।
पूर्ण: पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥ ७३ ॥
 
(684) स्तव्यः – चेतश्शरीरयोर्जन्तोर्व्यापाराराध्यता हरेः । उक्ता
नारायणस्याथि वागाराध्यत्वमुच्यते । स्मृतः स्तुत्यर्हणात् स्तव्यः
षडर्णो बन्धमोचकः ॥ (685) स्तवप्रियः - यया कयाचिद्भारत्या येन.
केनापि जन्तुना । यथाकथञ्जित् कथितो यस्य प्रियतमः स्तवः । स्तवप्रियः
स कथितो वस्वर्णः प्रीतिवर्धकः । (686) स्तोत्रम् - स्वेनैव निष्पाद्यतया
स्वस्तुते: स्तोत्रमुच्यते ॥ (687) स्तुतः - शेषशेषाशनाद्यैर्यः सूरि-
भिश्चास्मदादिभिः । स्तुतत्वादविशेषेण स्तुत इत्यभिधीयते ॥ (688)
स्तोता - स्वस्तोतारं परं स्तोतुं शीलं यस्यास्ति स्वर्वदा । स्तोता स
स्यात् पञ्चवर्ण: सर्वस्तुत्यत्वदो मनुः ॥ (689) रणप्रियः - सुहृत्प्रियं
युद्धकर्म यस्यास्ति स रणप्रियः ॥ (690) पूर्ण:- अवाप्तसर्वकामत्वं
यस्यासौ पूर्ण उण्यते ॥ ( 691) पूरयिता - सदा पूरयितुं शीलं यस्य
स्तोतृमनोरथान् । स स्यात् पूरयिता (692) पुण्यः - <error>नुण्यः</error> <fix>पुण्यः</fix> सोऽपि
पातकिपावनः ॥ (693) पुण्यकीर्ति: - पुण्यः श्लोकोऽस्ति यस्तास्य
पुण्यकीर्तिः स तु स्मृतः । (694) अनामयः- संसाराख्यमहाव्याधेः
विरोधित्वादनामयः
 
मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥ ७४ ॥
 
(695) <error>मनोजतवः <error><fix>मनोजवः -</fix> भक्तानां संपदः शीघ्रं करोतीति मनोजवः ॥
( 696) तीर्थकर:- गङ्गादितीर्थहेतुत्वात् श्रुतिस्मृत्योः प्रवर्तनात् । आत्म
प्रवेशसोपानकृत्त्वात् तीर्थकरः स्मृतः । (697) वसुरेताः- वसुशब्दोज्योति-
रर्थोरेतस्तत्कारणं मतम् । दिव्यज्योतिःकारणत्वात् वसुरेताः प्रकीर्तितः ॥
( 698) वसुप्रद: – देवकीवसुदेवाभ्यां आत्मरूपं महद्धनम् । पुत्रत्वेन
प्रकर्षेण ददातीति वसुप्रदः ॥ ( 699) वसुप्रदः – देवकीवसुदेवाभ्यां
स्वपितृत्वं महद्वसु । तेजोऽसौ प्रददातीति वसुप्रद इतीरितः ॥ (700)
वासुदेवः - वसुदेवापत्यभावत् । वासुदेवः प्रकीर्तितः ॥ (701) वसुः -
वसतीति वसुर्लोकहितेच्छुः क्षीरसागरे ॥ (702) वसुमनाः - सिन्धौ
लक्ष्मीजन्मभूमौ वसतोऽप्यस्य वै मनः । वसुदेवे सदाऽस्तीति स स्यात्
वसुमनाः परम् ॥ (703) हवि: - नन्दगोपयशोदाभ्यां कंसोपद्रव-
शान्तये । अदीयताऽऽदीयत च ताभ्यां हविरतः स्मृतः ॥