This page has been fully proofread once and needs a second look.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
ब्रह्मण्यो ब्रह्मष्टकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।
 

ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ ७९ ॥
 
३९
 
--
 

 

 
(667) ब्रह्मण्य : – जीवात्मा प्रकृतिश्चापि ब्रह्मेति व्यपदिश्यते ।

कारण स्थितिभोगादे: सर्वावस्थासु यत् ततः । ताभ्यां हितः सन्

ब्रह्मण्यः सप्तार्णो भोगदायकः ॥ (668) ब्रह्मकृद्ब्रह्मा- महदादितमः कार्
यं
ब्रह्मेति ह्यभिधीयते । तस्य कर्ता स्वयं ब्रह्मा नियाम्यो यस्य सर्वदा ।

स तु स्यात् ब्रह्मकृद्ब्रह्मा नवार्णः सर्वशक्तिदः ॥ (669) ब्रह्म - व्यक्ताव्यक्त-

समष्ट्यादि पुरुषांश्चैव नित्यशः । गुणैश्च कल्याणन मैर्ब्रह्म बृंहयतीति च

रूपैः स्वरूपेण गुणैर्विभवैश्च स्वयं सदा । वंबृंहतीति च तद् ब्रह्म षडर्ण:

सन्ततिप्रदः ॥ (670) ब्रह्मविवर्धनः - तपोविवर्धनान्नित्यं स्मृतो ब्रह्म

विवर्धनः ॥ (671) ब्रह्मवित्—यो वेदान्अन्ततो वेत्ति स ब्रह्मविदुदीरितः ॥

(672) ब्राह्मण:- - दत्तात्रेयादिरूपेण ह्युदीर्णो ब्राह्मण स्मृतः । पठनाद्वाऽथ

वेदस्य ब्राह्मण परिकीर्तितः ॥ (673) ब्रह्मी - मानमेय स्वरूपैतत्स्वामी

ब्रह्मीति शब्ध्यते ॥ 674 ब्रह्मज्ञः – यो वेदान् अर्थतो वेत्ति सोऽयं ब्रह्मज्ञ

ईरितः ॥ (675) ब्राह्मणप्रियः - वेदाधिकारिणो विप्राः प्रिया यस्येति वै

सदा । ब्राह्मणप्रिय इत्युक्तो नवार्णो धर्मदो मनुः ॥
 
-
 

 
महाक्रमो महाकर्मा महातेजा महोरगः ।
 
महाऋ

महाक्र
तुर्महायज्वा महायज्ञो महाहविः ॥ ७२ ॥
 
www
 

 
(676) महाक्रम: - परमोन्नतिमात्मानं निम्नात् भवरसातलात् ।

जीवान् समारोहयतो ज्ञानभक्तवात्यादिरूपिणी । पूर्वानुपूर्वी यस्यास्ति

स महाक्रम ईरितः ॥ (677) महाकर्मा – अत्यन्तहीनान् जन्तूंश्

योग्यान् स्वानुभवस्य हि । करोति महदाश्चर्यं कर्म तत् यस्य सर्वदा ।

महाकर्मा स विज्ञेयो ह्यष्टार्णो मनुरुत्तमः ॥ (678) महातेजाः - अनाद्य-

विद्याख्यतमोहारि तेजो महत् यतः । महातेजा ह्यतः ख्यातः तेजोदो

वसुवर्णकः (679) महोरगः- महोरग इति ख्यातश्चित्तद्वारा प्रवेशनात् ॥

(680) महाक्रतुः – सर्वेवैश्च सुकरा पूजा यस्य स्यात् स महाक्रतुः ॥

(681) महायज्वा – देवतान्तरयाजिभ्यः स्वयाज्युत्कर्षकारकः । महायज्वा

समुद्दिष्टः सत्कर्मफलदो मनुः ॥ (682) महायज्ञः - अन्येभ्यो देव-

यागेभ्यः स्वयागोत्कर्षकारकः । महायज्ञः समाख्यातो ह्यष्टार्णो हरियागदः ॥

(683) महाहविः - अहिंस्त्रमात्मादि हविर्यस्य स्यात् स महाविः ॥
 
-
 
-