This page has not been fully proofread.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
यद्रूपं विघैयात्मा स कीर्तितः ॥ (628) सत्कीर्ति:- ईडक्सौशल्य-
सत्वाद्धि सत्कीर्तिरिति कथ्यते ॥ (629) छिन्नसंशयः - सौशील्यप्रथया
चैवं दुष्करत्वादिसंशय: । छिन्नो येन विशेषेण स प्रोक्तरिछन्न संशयः ॥
 
-
 
उदीर्णः सर्वतश्चक्षुरनीशश्शाश्वतस्थिरः ।
 
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥ ६७ ॥
 

 
-
 
( 630) उदीर्ण:- प्रत्यक्षविषयत्वेन ह्यत्पन्नश्चर्मचक्षुषाम् । उदीर्ण
इति स प्रोक्तः सप्तार्णो नयनप्रदः ॥ (631) सर्वतश्चक्षुः – यत्साक्षात्कार-
कर्माणि चर्मचक्षूंप्यपि त्वतः । सर्वतः सर्वतश्चक्षुर्नवाण नेत्र-
शक्तिदः ॥ (632) अनीशः - प्रोक्तो ह्यनीशो भक्तेषु तदायत्ताखिल-
क्रियः ॥ (633) शाश्वतस्थिरः - बिम्बाकृत्याऽऽत्मना बिम्बे स्थितः
स्यात् शाश्वतस्थिरः ॥ (634) भूशयः - स्वयंव्यक्तादिरूपेण की शेते
भूशयस्ततः ॥ (635) भूषण:- एवं विश्वजनीनेन शीलेनैष श्रियः
पति: । यदात्मानं भूपयति भूषणस्तत् स कीर्तितः ॥ (636) भूतिः -
योऽसौ समृद्धिमैश्वर्य भक्तानां भूतिरीरितः ॥ (637) अशोकः-
नाथत्वाचापि सर्वेषां अशोकोऽनाथताहतेः ॥ (638) शोकनाशनः-
भक्तानां स्वेन संबन्धव्यतिरेकनिबन्धनम् । शोकं नाशयतीत्येष शोक-
नाशन ईरितः ॥
 
कुम्भो विशुद्धात्मा विशोधनः ।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितक्रिमः ॥ ६२ ॥
 
-
 
(639) अर्चिष्मान् – बाह्याभ्यन्तरसद्भक्तचक्षुरुन्नयनक्षमम् । दिव्यं
तेजः सदा यस्य सोऽर्चिष्मानिति कथ्यते ॥ (640) अर्चित: – अर्चा
ह्यर्चावतारोऽस्य क्षेत्रायतनसद्मसु । सञ्जातेत्यर्चितः प्रोक्तः सप्तार्णो
॥ (641) कुम्भः – काम्यते स सजातीयैर्गुणैः कुम्भः
प्रकीर्तितः । कौस भातीति कुम्भो वा षडर्णो भयनाशकः ॥ (642)
विशुद्धात्मा - सर्वाश्रिसेप्वशेषेण सर्वस्य त्यागतः सदा । विशुद्धात्मा,
(643) विशोधन: क्षेत्रमृतशोधकः स्यात् विशोधनः ॥ (644)
तत्तत्क्षेत्रेश्वरोक्तिः स्यादनिरुद्धादिनामभिः । अनिरुद्धः - वासुभाण्डा-
-
 

 
ख्यभूभागे नित्यसंनिहितः स्थितः । अनिरुद्ध
 
इति ख्यातो वस्वर्णो
राहित्यात् बहनिष्ट-
-
 
मनुरुत्तमः ॥ (645) अप्रतिरथः - प्रतिपक्षस्य
 
जनार्दनः । विख्यातो ह्यप्रतिरथो नवार्णः शत्रुनाशकः ॥ ( 646)