This page has been fully proofread once and needs a second look.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
३५
 
-
 
शान्तिरिति प्रोक्तः ऋत्वर्णो भक्तिदो मनुः ॥ (592) परायणम् – यस्मात्

तु परमा भक्तिः चरमा प्रापिका मता । तस्मात् परायणमिति स्मृतो

ह्यष्टार्ण उत्तमः ॥
 

 
शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः ।

गोहितो <error>गोपतिगाप्ता</error><fix>गोपतिर्गोप्ता</fix> वृषभाक्षो वृषप्रियः ॥ ६३ ॥
 
-
 

 

 
(593) शुभाङ्ग:- स्वभक्त्युद्भवकल्याणयमाद्यष्टाङ्गसंभवः । यः स्यात्

शुभाङ्गः स प्रोक्तः सप्तार्णो ध्यानदायकः ॥ (594) शान्तिदः - एवं निष्पन्न -

भक्तिभ्यः शान्तितिं सायुज्यसंज्ञिकाम् । महानन्दां ददातीति शान्तिदः

परिकीर्तितः ॥ (595) स्रष्टा - कर्मवैचित्र्यतः सृज्यान् स्रष्टा स्यात्

सृजतीति यः । (596) कुमुद - कोदः - कौ प्राकृते मण्डलेऽस्मिन् स्वभोक्तॄनपि

भोजयन् । मोदते यः सर्वकालं कुमुदस्स तु गीयते । (597)

कुवलेशयः–वलं येषां कुत्सितं ते कुलाः जीवसंज्ञिता । देहेन्द्रिया-

देरीशास्ते कुवलेशा इति स्मृताः । यस्ताम् नियच्छन् यात्येष कुवलेशय

उच्यते ॥ (598) गोहितः - संसारबीजक्षेत्रस्य प्रकृतेः स्थापकश्च यः ।

स गोहितः (599) गोपतिः - स स्वर्भूमेः पतित्वात् गोपतिः स्मृतः ॥

( 600) गोप्ता - गोप्ता स यः कर्मफलचक्रस्य परिपालकः ॥ (601)

वृषभाक्षः– यतोऽक्षो वृषभो धर्मो वृषभाक्षस्स उच्यते ॥ (602)

वृषप्रिय: - धर्मोंमौ प्रियौ तावस्येति प्रवर्तकनिवर्तको । वृषप्रियस्स विज्ञेयो

ह्यष्टार्णः फलदो मनुः ॥
 
-
 
'

 
अनिवर्ती
निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः ।
 
क्षा

श्रीवत्सवक्षाः
श्रीवासः श्रीपतिः श्रीमतां वरः ॥ ६४ ॥
 
:
 
पितृयाणप्रवृत्तानां

 
(603) अनिवर्ती -
पितृयाणप्रवृत्तानां संसारादनिवर्तनात् ।

अनिवर्ती समाख्यातो ह्यष्टार्णोऽभयदो मनुः ॥ (604) निवृत्तात्मा -

सर्वे निवृत्तिधर्माणो यस्यात्मानः स तु स्मृतः । निवृत्तात्मेत्यष्टवर्णो

दुष्कर्मफलमोचकः ॥ (605) संक्षेप्ता - स्वाभाविकासंकुचितमेधाया

अप्रसारणम् । प्रवृत्तिधर्मणां कर्तुं शीलं यस्यास्ति सर्वदा । स संक्षेप्तेति

कथितः र्णो धीविकासदः ॥ ( 606) क्षेमकृत् - असंकोचज्ञानरूप-

क्षेमस्य करणात् सताम् । क्षेमकृच्चापि सर्वेषां (607) शिवः - शिवस्य

करणाच्छिवः ॥ (608) श्रीवत्सवक्षाः- लक्ष्मीवाल्लभ्यसौभाग्यचिह्नं
 
-
 
(603) अनिवर्ती –
 
-
 
-