This page has not been fully proofread.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
३५
 
-
 
शान्तिरिति प्रोक्तः ऋत्वर्णो भक्तिदो मनुः ॥ (592) परायणम् – यस्मात्
तु परमा भक्तिः चरमा प्रापिका मता । तस्मात् परायणमिति स्मृतो
ह्यष्टार्ण उत्तमः ॥
 
शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः ।
गोहितो गोपतिगाप्ता वृषभाक्षो वृषप्रियः ॥ ६३ ॥
 
-
 

 
(593) शुभाङ्ग:- स्वभक्त्युद्भवकल्याणयमाद्यष्टाङ्गसंभवः । यः स्यात्
शुभाङ्गः स प्रोक्तः सप्तार्णो ध्यानदायकः ॥ (594) शान्तिदः - एवं निष्पन्न -
भक्तिभ्यः शान्ति सायुज्यसंज्ञिकाम् । महानन्दां ददातीति शान्तिदः
परिकीर्तितः ॥ (595) स्रष्टा - कर्मवैचित्र्यतः सृज्यान् स्रष्टा स्यात्
सृजतीति यः । (596) कुमुद - को प्राकृते मण्डलेऽस्मिन् स्वभोक्तनपि
भोजयन् । मोदते यः सर्वकालं कुमुदस्स तु गीयते । (597)
कुवलेशयः–वलं येषां कुत्सितं ते कुबलाः जीवसंज्ञिता । देहेन्द्रिया-
देरीशास्ते कुवलेशा इति स्मृताः । यस्ताम् नियच्छन् यात्येष कुवलेशय
उच्यते ॥ (598) गोहितः - संसारबीजक्षेत्रस्य प्रकृतेः स्थापकश्च यः ।
स गोहितः (599) गोपतिः - स स्वर्भूमेः पतित्वात् गोपतिः स्मृतः ॥
( 600) गोप्ता - गोप्ता स यः कर्मफलचक्रस्य परिपालकः ॥ (601)
वृषभाक्षः– यतोऽक्षो वृषभो धर्मो वृषभाक्षस्स उच्यते ॥ (602)
वृषप्रिय: - धर्मों प्रियौ तावस्येति प्रवर्तकनिवर्तको । वृषप्रियस्स विज्ञेयो
ह्यष्टार्णः फलदो मनुः ॥
 
-
 
'निवृत्तात्मा संक्षेता क्षेमकृच्छिवः ।
 
क्षा श्रीवासः श्रीपतिः श्रीमतां वरः ॥ ६४ ॥
 
:
 
पितृयाणप्रवृत्तानां
पितृयाणप्रवृत्तानां संसारादनिवर्तनात् ।
अनिवर्ती समाख्यातो ह्यष्टार्णोऽभयदो मनुः ॥ (604) निवृत्तात्मा -
सर्वे निवृत्तिधर्माणो यस्यात्मानः स तु स्मृतः । निवृत्तात्मेत्यष्टवर्णो
दुष्कर्मफलमोचकः ॥ (605) संक्षेता - स्वाभाविकासंकुचितमेधाया
अप्रसारणम् । प्रवृत्तिधर्मणां कर्तुं शीलं यस्यास्ति सर्वदा । स संक्षेप्तेति
कथितः पडण धीविकासदः ॥ ( 606) क्षेमकृत् - असंकोचज्ञानरूप-
क्षेमस्य करणात् सताम् । क्षेमकृच्चापि सर्वेषां (607) शिवः - शिवस्य
करणाच्छिवः ॥ (608) श्रीवत्सवक्षाः- लक्ष्मीवाल्लभ्यसौभाग्यचिह्नं
 
-
 
(603) अनिवर्ती –
 
-
 
-