This page has been fully proofread once and needs a second look.

ज्योतिरादित्यो नवार्णो ज्ञानदायकः ॥ (570) सहिष्णु: - ब्रह्मादिमन्तु-
सहनात् सहिष्णुरिति कथ्यते । (571) गतिसत्तमः- धर्मे प्रत्ययिततमो
गतिसत्तम उच्यते ॥
 
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।
दिविस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥ ६१ ॥
 
(572) सुधन्वा - सु शोभनं धनुर्यस्य सुधन्वा परिकीर्तितः। (573)
खण्डपरशुः— तीव्रकोपात् परशुना रौद्रसंग्रामखण्डनात् । प्रोक्तः
स खण्डपरशुः नवार्णः शोकनाशकः ॥ (574) दारुणः- बाह्याभ्यन्तरश-
त्रूणां दारणादपि दारुणः ॥ (575) द्रविणप्रदः - शास्त्रं तदर्थं द्रविणं
प्रददाति जनाय यः । व्यासो भूत्वा हरिः साक्षात् द्रविणप्रद उच्यते ॥
(576) विविस्पृक् - परया विद्यया यः स्वं स्पृशतीति परे पदे । दिवि
स्पृक् प्रोच्यते नित्यम् ॥ (577) सर्वदृक् - सर्वदृक सर्वदर्शनात् ।
(578) व्यासः - त्रय्याश्चतुर्धा करणात् व्यास इत्युच्यते बुधैः । (579)
वाचस्पतिः - वाचः पञ्चमवेदस्य स्वामी वाचस्पतिः स्मृतः ॥ (580)
अयोनिजः - सारस्वतावतारे हि भगवद्वाग्भवत्वतः । स्मृतो ह्ययोनिज
इति वस्वर्णः कर्मनाशकः ॥
 
त्रिसामा सामगस्साम निर्वाणं भेषजं भिषक् ।
संन्यासकृच्छमश्शान्तो निष्ठा शान्तिः परायणम् ॥ ६२ ॥
 
(581) त्रिसामा - प्रोक्तस्त्रिसामा यस्मात्स बृहदादित्रिसामकः ।
(582) सामगः – स्वयं स्वानुभवप्रीत्या गायतीति च सामगः ॥ (583
साम- स्वगायकानां कालुष्यं स्यति यः साम कथ्यते ॥ (584) निर्वाणम्-
निर्वाणं स्यात् परगतेर्निमित्तं निर्गतैनसाम् ॥ (585) भेषजम् - असाध्य-
भवरोगस्य भेषजं यत् सदौषधम् ॥ (586) भिषक् - भवरोगनिदानज्ञो
योऽसौ भिषगुदीरितः ॥ (587) सन्न्यासकृत् - त्यागेन सात्त्विकेनाशु
रजसस्तमसः पदम् । यः कृन्तति स सन्न्यासकृत् नवार्णो मनुः स्मृतः ॥
(588) शम: - अनुद्रिक्तः शमः प्रोक्तः (589) शान्तः शान्तोऽविकृत-
मानसः ॥ ( 590) निष्ठा - निष्ठीयते च योगोत्थैर्यत्र निष्ठा स कथ्यते ॥
(591) शान्तिः - सर्वाधिकाराः शाम्यन्ति समाधौ परमे यतः । अतः