This page has been fully proofread once and needs a second look.

वेधाः स्वाङ्गोऽजितः कृष्णो दृढः संङ्कर्षणोऽच्युतः ।
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ ५९ ॥
 
(551) वेधा:- महाविभवकल्याणे सन्ततं विदधाति यः । भक्ते-
भ्यः परमं वेधाः षडर्णो मङ्गलप्रदः ॥ (552) स्वाङ्ग:- स्वासाधारणमङ्गं-
हि छत्रादि परिबर्हणम् । यस्यास्ति नित्यं स स्वाङ्गः षडर्णः परिवारदः ॥
(553) अजित: - प्राकृतैर्न जिता यस्यास्याजिताख्या पुरीति वा ।
अजितः स तु विज्ञेयः सप्तार्णो मुक्तिदो मनुः ॥ (554) कृष्णः -अप्राकृताति-
रुचिरमेचकः कृष्ण ईरितः ॥ (555) दृढः - स्थूलत्वात् बलवत्त्वाश्च
दृढ इत्यभिधीयते ॥ (556) सङ्घर्षण: - सङ्घर्षणः संसृतौ यः समं चिद-
चितौ कृषेत् । (557) अच्युतः - ब्रह्मादिवन्न च्यवते स्थानात् इत्यच्युतः
स्मृतः ॥ (558) वरुणः - यः स्थितः सर्वमावृत्य वरुणः स तु कथ्यते ।
(559) वारुणः स्वामित्वेन वृणानेषु स्थितो वारुण ईरितः ॥ (560)
वृक्षः– साधूनामाश्रयत्वाच्च सर्वैनस्सहनादपि । सर्वोपजीव्यसर्वस्वो
इत्यभिधीयते ॥ (561) पुष्कराक्षः - सतां प्रसादवर्षेण पोषके<flag></flag>
चाक्षिणी । पुष्कराक्षस्स विज्ञेयो ह्यष्टार्णः प्रीतिवर्धकः ॥ (562)
महामनाः – अगाधोदारविस्तारं मनो यस्य महामनाः ॥
 
भगवान् भगहाऽऽनन्दी वनमाली हलायुधः ।
आदित्यो ज्योतिरादित्यस्सहिष्णुर्गतिसत्तमः ॥ ६० ॥
 
(563) भगवान् - सर्वहेयप्रत्यनीककल्याणात्मतया स्थितः। पूज्यात्
पूज्यतमो योऽसौ भगवानिति शब्द्यते ॥ (564) भगहा - भगशब्द्यान् स
कल्याणगुणान् हन्ति तु गच्छति । इत्यसौ भगहा प्रोक्तः षडर्णः सुख-
<flag></flag>कः ॥ (565) नन्दी - नन्दगोपेन पितृमान् नन्द्यानन्दीति वा तथा ।
(566 ) वनमाली - स्वसृज्यभूतसूक्ष्माणां मालया नित्ययोगतः । वन-
माली समाख्यातो ह्यष्टार्णो भूषणप्रदः ॥ (567) हलायुधः - हलं च<flag></flag>
तं सीरं धत्ते योऽसौ हलायुधः । सीरकार्यसमृद्ध्यर्थे वस्वर्णो मन्त्र-
॥ (568) आदित्यः - आवर्णादेव यः प्राप्यः स आदित्यः<flag></flag>
: । अदितिर्देवकी तस्याः वाऽऽदित्योऽपत्यभावतः ॥ (569)
ज्योतिरादित्यः- समस्ततेजोहरणज्योतिषा दीप्यते च यः । स वै स्यात्