This page has been fully proofread once and needs a second look.

३३
 
श्रीविष्णुसहस्रनामस्तोत्रम्
 
रार्जवात् सत्यवर्तनः । 'यः स्यात् स सत्यधर्मा च वस्वर्णः सत्यधर्मदः ॥

(533) त्रिविक्रमः - त्रीनू वेदान् क्रमते यो हि महिम्ना स त्रिविक्रमः ।
 

 
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।

त्रिपद स्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ॥ ५७ ॥
 

 
(534) महर्षि : - साक्षात् द्रष्टा स वेदानां महर्षिः कपिल

स्मृतः ॥ (535) कप्रिलाचार्यः - तत्त्वप्रवचनादेष कपिलाचार्य उच्यते ।

(536) कृतज्ञः- स्वाभिनम्रत्वसुकृतं किञ्चिदंशुमता कृतम् । विदितं येन

कारुण्यात् कृतज्ञः सोऽभिधीयते ॥ (537) मेदिनीपतिः - कापिलं

रूपमास्थाय यो धारयति मेदिनीम् । स मेदिनीपतिः स्यातो नवाणों
र्णो
भूप्रदो मनुः॥ (538) त्रिपदः—भोक्तृभोग्यनियन्तृणि ज्ञाप्यान्यस्य पदान्यतः ।
 

प्रणवे त्रीणि वाऽप्येतद्वाचकानि पदान्यतः ॥ वाराहरूपस्याऽऽस्थाने

पदानि ककुदानि वा । त्रीणि सन्ति ततो वाऽसौ त्रिपदः परि-

कीर्तितः ॥ (539) त्रिदशाध्यक्षः – सखा स्यात् त्रिदशाध्यक्षो ब्रह्मादेः

प्रलयापदि ॥ (540) महाशृङ्ग: - मही यस्य च शुशृङ्गाग्रे महाशृङ्गः स

कथ्यते ॥ (541) कृतान्तकृत् - अन्तकाभं हिरण्याक्षं कृत्तवान् यः

कृतान्तकृत् । वाराहयोयोः स्वसिद्धान्तकृतेः स्मृतिपुराणयोः । कृतान्त
-
कृदिति ख्यातो वस्वर्णोऽभीष्टदायकः ॥
 
-
 

 
महावराहो गोविन्दः सुषेण: कनकाङ्गदी ।

गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥ ५८ ॥
 
-
 

 
(542) महावराहः -- रसातलगतामुर्वीं यश्चोद्धृत्योस्थितः क्षणात् ।

महावराह इति स स्मृतो ह्युर्वीप्रदो मनुः ॥ (543) गोविन्दः - नष्टां

धरर्णों पूर्वं गोविन्दो लब्धवानिति ॥ (544) पञ्चोपनिषदङ्गत्वात्

सुषेण: परिकीर्तितः ॥ (545) कनकाङ्गदी – अप्राकृतानि दिव्यानि

भूषणानि च नित्यशः । रोरौक्माणि सन्ति यस्यासा वुच्यते कनकाङ्गदी ॥

(546) गुह्यः - पञ्चोपनिषदङ्गेन गूढत्वात् गुह्य उच्यते ॥ (547) गभीर:-

तद्वपुर्व्यङ्ग्यगाम्भीर्यो गभीर इति कथ्यते ॥ (548) गहनः – अन्नैर्दुरव -

गाहत्वात् गहनः परिकीर्तितः ॥ (549) गुप्तः - तद्गौरवक्षैज्ञैर्गुप्तः स

गुप्त इत्यभिधीयते ॥ (550) चक्रगदाधर :- यः शक्तिमहिद्दिव्यहेतिः स
 
-
 

स्याञ्चक्रगदाधरः