This page has been fully proofread once and needs a second look.

जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः ।
अम्भोनिधिरनन्तात्मा महोदधिशयीऽन्तकः ॥ ५५ ॥
 
(515) जीवः - तानात्मनाशाद्व्यवर्त्य सत्त्वान यश्च स्वसेवया ।
उज्जीवयति जीवः स भक्तक्लेशासहो मनुः ॥ (516) विनयिता-
भक्तान् नित्यं राजपुत्रलालनन्यायतः सुखम् । रक्षत्यतो विनयिता
नयते: रक्षणार्थतः ॥ (517) साक्षी- साक्षात्करोति यः साक्षी तद्वृत्तं
रक्षणाय सः ॥ (518) मुकुन्द: - तैः प्रार्थितः स्वयं मुक्ति मुकुन्दः स्यात्
ददाति यः । (519) अमितविक्रमः- तेषां ध्यानानुसन्धेयतत्त्वसन्दोह-
धारिणीम् । तां शक्तिं धृतवान् योऽसौ स्पृतो ह्यमितविक्रमः । (520)
अम्भोनिधिः - आधारशक्तिकमठ स्वरूपेणार्णवाम्बसि । निधीयते स्वयं
येन स ह्यम्भोनिधिरुच्यते ॥ ( 521) अनन्तात्मा – कमठस्योपरि जगदा-
धारस्तम्भभोगिनः । स्वरूपेण स्थितो योऽसावनन्तात्मा प्रकीर्तितः ॥
(522) महोदधिशयः— तस्मिन् अनन्तपर्यङ्के समुद्रे शयनाच्च यः । महो-
दधिशय: ख्यातो दशार्णो मनुरुत्तमः ॥ (523) अन्तं करोति जगतो
योऽसावन्तक ईरितः ॥
 
अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।
आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥ ५६ ॥
 
(524) अज: – तत्त्वावसाने प्रणवप्रकृतेः स त्वकारतः । स्मर्तव्य-
वादजः प्रोक्तः षडर्णो ह्यूर्मिनाशकः ॥ (525) महार्ह : - स्वरूपादि-
कृतार्थेन तारेणात्मनिवेदनम् । महं पूजामर्हतीति महार्ह इति कथ्यते ॥
(526) स्वाभाव्यः – मन्त्रेणानेनात्मभिस्तु स्वभूतैराभिमुख्यतः । अवश्यं
भावनीयत्वात् स्वाभाव्यः परिकीर्तितः ॥ (527) जितामित्र: - एतद्रहस्य-
वेज्ञानविरोधिममतादयः । जितास्तेषामनेनेति जितामित्रोऽष्टवर्णकः ॥
(528 ) प्रमोदनः – ध्यानासक्तेषु भक्तेषु मोदमान: प्रमोदनः ॥ (529)
आनन्दः – अनन्दवल्लीमीमांस्यस्त्ववाङ्मनसगोचरः । आनन्दो ह्यस्य
नेत्योऽस्तीत्यानन्दः परिकीर्तितः ॥ (530) नन्दनः-तमानन्दं यथोक्तायां
उक्तौ प्रापण्य्य यस्सदा । मुक्तान् नित्यान् नन्दयति नन्दनः स तु कीर्तितः ॥
(531) नन्दः - भोग्यैर्भोगोपकरणैर्भोगैर्भोक्तृभिरेव च । तस्मिन् समृद्ध्यते
नेत्यमिति नन्दः प्रकीर्तितः ॥ (532) सत्यधर्मा –आ प्रकमादा स्वप्राप्ते-