This page has been fully proofread once and needs a second look.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
२९
 
सर्वेदवेदान्त-
उच्यते ।
असत् असतां
 
सर्व
जनं धार्मिकयन् लीलानुग्रहलक्षणम् । धर्मे करोति यस्माद्धि तस्मात्

धर्मकृदुच्यते ॥ (478) धर्मी-- साधारणोपकरणं धर्मो यस्यास्ति केवलम् ।

स वै धर्मीति विज्ञेयः षडर्णो धर्मदो मनुः ॥ (479) सत्-निरुपाधिक
-
सद्भावान्नित्यसाद्गुण्ययोगतः । सच्छन्ब्देनोच्यते विष्णुः
वेदवेदान्त-
पारगैः ॥ (480) अक्षरम्- अपक्षयविनाशादिवर्जितोऽक्षर
उच्यते ।
ततोऽक्षरसदित्येवमेकनाम च शस्यते ॥ (481)
असत् - असतां
यः सदाऽनन्तभवाख्याघप्रदानतः । असदित्युच्यते सद्भिः (482) क्षरम्-

तादृक्क्षरमसत् क्षरम् (483) अविज्ञाता - प्रपन्नकृतपापानां किञ्चिदव्य-
प्य-
विचारणात् । अविज्ञातेति कथितः बुधैस्तद्गुणपारगैः । (484) सहस्रांशुः -

अंशवो बुद्धयः प्रोक्ताःःताः सहस्रं सन्ति यस्य ते । सहस्रांशुरिति ख्यातो

ह्यष्टार्णो धीप्रदो मनुः ॥ (485) विधाता - तादधीन्यात् यमादीनां विधा-

तेत्युच्यते बुधैः ॥ (486) कृतलक्षणः - कृतं हि लाञ्छतंनं येन स्वोपादेयेषु

जन्तुषु । परमात्मा हृषीकेशः स तु स्यात् कृतलक्षणः ॥
 
-
 
-
 

 
गभस्तिनेमिः सत्त्वस्थ सिंहो भूतमहेश्वरः ।

आदिदेवो महादेवो देवेशो देवभृत् गुरुः ॥ ५२ ॥
 
-
 
-
 

 
(487) गभस्तिनेमिः - ज्योतिर्विशिष्टं नेम्योपलक्षितं यस्य तूत्त

मम् । चक्रं गभस्तिनेमिः स नवार्णः पापनाशकः ॥ (488) सत्त्वस्थः
-
सत्त्वे हृदि स्थितत्वात् स सत्त्वस्थः समुदीरितः । (489) सिंह:
-
हरिभक्तानविज्ञाय दण्डे प्रवणमानसान् । हिनस्ति च यमादीन् यः स

सिंह: परिकीर्तितः ॥ (490) भूतमहेश्वरः – भूतेश्वराणां स ब्रह्मयमा-

दीनां नियन्त्रणात् । कारणं जगतां यश्च स स्यात् भूतमहेश्वरः ॥

(491) आदिदेवः - आदिदेवो हि भवति ब्रह्मादिभ्यो विशेषतः ॥ (492)

महादेवः— ब्रह्मादिभिः क्रीडति यो महादेवः स उच्यते ॥ (493) देवेश:-
-
ब्रह्मादीनां च देवेशो यथार्हविनियोजकः ॥ (494) देवभृत् - ब्रह्मशक-
क्र-
यमादीनां भरणात् देवभृत् स्मृतः ॥ (495) गुरु:- ब्रह्मेन्द्र वरुणादीनां

गुरुर्वेदोपदेशनात ॥
 
-
 
-
 
त् ॥
 
उत्तरो गोपतिर्गौगोप्ता ज्ञानगम्य: पुरातनः ।

शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥ ५३ ॥
 
--
 
-
 

 
( 496) उत्तर: - आपदुत्तारणात् योऽसौ ब्रह्मादेरुत्तरः स्मृतः ॥ (497)

गोपतिः-छन्दोभाषावेदवाचां निर्वाहात् गोपतिः स्मृतः ॥ (498)