This page has been fully proofread once and needs a second look.

२८
 
(
 
' श्रीविष्णुसहस्रनामस्तोत्रम्
 
समाध्यनुष्टापनेन तदनुष्ठानशीलिनाम् । सुखं बहु ददातीति सुख
दः
परिकीर्तितः ॥ (461) सुहृत् - किमस्मिन् करवाणीत्यप्यपकारिणि

शोभनम् । यस्यास्ति हृदयं सोऽयं सुहृदित्यभिधीयते ॥ (462)

मनोहर.रः – एवं निसर्गसौहार्दात तेषां हृदयहारकः । मनोहरः समा-

ख्यातो ह्यष्टार्णः शान्तिदायकः ॥ (463) जितक्रोध:- रक्षसां देवविषये

येन क्रोधो विनिर्जितः । स जितक्रोध आख्यातो ह्यष्टार्ण: क्रोधनाशकः ॥

(464) वीरबाहुः - विक्रान्ता वाबाहवो यस्य वीरबाहुस्तु स स्मृतः ।

(465) विदारण: - आयुधैरुिर्दारुणैर्दिव्यैदरिणाच्च विदारणः ॥
 

 
स्वापन: स्ववशो व्यापी नैकात्मा नैककर्मकृत् ।

वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ ५० ॥
 
-
 

 
(466) स्वापन:- कटाक्ष भ्रूविलासाद्यैः नष्टशिष्टान् जनानपि । योऽसौ

सभ्यङ् मोहयति स्वापनः परिकीर्तितः ॥ (467) स्ववश: - स्वकीयैस्सह

सुप्तेषु तेषु स्वैरविहारवान् । भवति स्ववश: सोऽन्यानाधीनत्वप्रदो

मनुः ॥ (468) व्यापी - देवरक्षोमन्दरेषु वासुकिप्रभृतिष्वपि प्याय-

नाय शक्त्या च व्यापी स्याद्वायाचापनासौ । (469) नैकात्मा–तदातनै-

र्
ब्राह्मकौर्ममोहिन्याद्यवतारकैः । नैकात्मेति श्रुतः सम्यक् मुन्यर्णो मनु-

रूपदः ॥ (470) नैककर्मकृत् - समुद्रमथने ऽनेक कर्मकृन्नैककर्मकृत् ।

(471) वत्सर : - पुरुषार्थस्थापनाय सर्वान्तिर्वसनाञ्च्च यः । धर्मत्मा

वत्सरः स स्यात् मुन्यर्णोऽभीष्टदो मनुः ॥ (472) वत्सलः – सर्वस्यान्त-

र्निवसने तस्य हेतुरथोच्यते । वत्से यतो धेनुरिव वत्सलः शरणा

गते ॥
(473) वमीत्सी - नित्यपोष्यात्मवर्गाख्यवत्सभूयस्त्वंतस्सदा ।

वत्सी स्याद्धि विशेषेण र्णो गोप्रदो मनुः । (474) रत्नगर्भ:-

धनायद्भ्यो यथाकामं प्रदेयधनवत्त्वतः । रत्नगर्भः समाख्यातो ह्यष्टार्णो

धनदो मनुः । 475) धनेश्वरः – तत्तदिष्टद्रव्यदाने शीघ्रकारी धनेश्वरः ॥
 

 
धर्मगुन्ब्धर्मकृद्धर्मी सदसत्क्षरमसत् क्षरम् ।
 

अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ॥ ५१ ॥
 

 
(476) धर्मगुप् - कामं दत्वाऽप्यर्थकामौ निवर्त्य विषयान्तरात ।
त् ।
ताभ्यां हितस्य धर्मस्य रक्षणात् धर्मगुप् स्मृतः ॥ (477) धर्मकृत्--