This page has been fully proofread once and needs a second look.

तद्यस्यास्ति स नक्षत्री सप्तार्णो लोकपावनः ॥ (443) क्षमः – अना-
यासेन निखिलं भारं च भुवनस्य यः । सहते स क्षमः प्रोक्तः षडर्णः
शान्तिदायकः ॥ (444) क्षाम:- अवान्तरलये कैश्चित् क्षीणः तारागणैः
स्मृतः । क्षामो ध्रुवसमीपस्थः चतुर्नक्षत्रसंयुतः ॥ (445) समीहनः—
स्वस्याधिकारे सर्वान् यः समीहयति सृष्टिषु । समीहनः स विज्ञेय-
स्त्वाष्टार्णः कार्यदायकः ।
 
यज्ञ शज्यो महेज्यश्च क्रतुः सत्रं सतांगतिः ।
सर्वदर्शी निमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ ४८ ॥
 
( 446) यज्ञ: – यज्ञाराध्यतया यज्ञः (447) इज्य: – इज्यः कर्मभि
रर्चितः ॥ (448) महेज्य: – इज्या हि महती यस्य स महेज्य उदाहृतः ॥
(449) क्रतुः – अग्निष्ठोमादयः सप्त संस्था : क्रतव ईरिताः । आराध्यः
क्रियते तैरित्यसौ क्रतुरुदीरितः ॥ (450) सत्रम् - अनेकयजमाने च दीर्घे
आसादिचोदिते । सत्रे तैराराध्यतया सत्रं स्यात् सीदतीति सः । (451)
सतांगतिः - निवृत्तिधर्मनिष्टानां गतिर्यः स सतां गतिः । (452) सर्वदर्शी-
धर्माधमौ च तौ सर्वौ अध्यक्षयितुमादरात् । सर्वदा शीलमस्येति सर्व-
दर्शी ततः स्मृतः । (453) निवृत्तात्मा - निवृत्तिधर्माचार्यत्वात् विषये -
भ्यो निवृत्तिमत् । मनो यस्य निवृत्तात्मा नरनारायणात्मकः । (454)
सर्वज्ञः - सर्वात्मना स्वमात्मानं यश्च जानाति केवलम् । सर्वज्ञः स तु
विज्ञेयस्सप्तार्णो ज्ञानदो मनुः । (455) ज्ञानमुत्तमम् - परश्च वैष्णवो
धर्मः सर्वोऽस्मिन् ज्ञायते यतः । सर्वेषां श्रेयसां मूलं तत् ज्ञेयं ज्ञानमुत्तमम् ।
 
सुव्रतस्सुमुखस्सूक्ष्मः सुघोषस्सुखदः सुहृत् ।
मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥ ४९ ॥
 
 
(456) सुव्रतः - भक्तार्थे व्रतवान् योऽसौ सुव्रतस्स प्रकीर्तितः ॥
( 457) सुमुख: - ध्यातॄणां सुप्रसन्नं यन्मुखं स सुमुखः स्मृतः ।
(458) सूक्ष्मः – सूक्ष्मो दुःसाधयोगैकलक्ष्यसूक्ष्मस्वरूपतः ॥ असु-
प्ष्वथवा गूढाभिप्राय: सूक्ष्म उच्यते । (459) सुघोष: -
ध्यायघोषो यस्यास्ति सुघोषः स तु कीर्तितः ॥ (460) सुखदः -