This page has been fully proofread once and needs a second look.

विस्तार : स्थावरस्थाणुः प्रमाणं बीजमव्ययम्
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः॥ ४६ ॥
 
(427) विस्तार : - प्रबलं यः कलिं हत्वा प्रवर्त्य च कुतं युगम् ।
विस्तार्य वेदमर्यादां स्थितो विस्तार उच्यते । (428) स्थावरस्थाणुः -
स्थावरीकुत्य धर्मान् यः शमे स्थास्यति नित्यशः । येन केनाप्यचाल्यः
स स्थावरस्थाणुरुच्यते । (429) प्रमाणम् - हिताहितस्थापकत्वात्
प्रमाणं स्यात् कृताद्रिदिषु ॥ (430) बीजमव्ययम् – यो वै कलियुगस्यान्ते
मुहुर्धर्मप्ररोहणम् । करोति भक्तरक्षार्थे स भवेत् बीजमव्ययम् ॥ (431)
अर्थः - परमैकान्तिभिर्नित्यमेषणात्रयवर्जितैः । स्वयंप्रयोजनतया प्राप्य-
माणोऽर्थ उच्यते ॥ (432) अनर्थ:- अर्थार्थिनाल्पभाग्येन निर्व्याजं
नार्थ्य(र्य) ते यतः । तस्मादनर्थनामाऽसौ वेदविद्भिः प्रकीर्तितः । (433)
महाकोशः– शङ्खपद्मादिनिधयो महान्तो रोहणो गिरिः । कोशा भाण्ड-
गृहा यस्य महाकोशः स उच्यते ॥ (434) महाभोग :- अर्थसाध्यः
कामभोगो यस्मादेषां महानिति । महाभोगः स विज्ञेयो ह्यष्टार्णश्चिन्ति-
तार्थदः । ( 435 ) महाधनः – अनिरूप्याऽऽतिकृपणप्रदेयं धनमक्षयम् ।
अस्यैवास्तीति सततं स महाधन ईरितः ॥
 
अनिर्विण्ण स्थविष्ठो भूर्धर्मयूपो महामखः ।
नक्षत्रनेमिर्नक्षत्री क्षमः क्षामस्समीहनः ॥ ४७ ॥
 
(436) अनिर्विण्ण:-- अनिर्विण्णो जागरूको जगद्वयापारसन्ततौ ॥
(437) स्थविष्ट: - शिंशुमाराकृतितया तारारूपेण सर्वदा । स्थैल्यात्
स्थविष्ठः संप्रोक्तः सप्तार्णः पापनाशनः । (438) भूः - औत्तानपादि-
संबन्धात् सर्वाधारतया तथा । भवतीति च भूः प्रोक्तो भक्तानां
भूतिदो मनुः । (439) धर्मयूपः - उत्तमाङ्गतया धर्मतत्त्वं यौतीति
सर्वदा । धर्मयूपः समाख्यातो ह्यष्टार्णो धर्मदायकः । (440) महामखः -
धर्मदेहतया पूज्यो यज्ञोऽस्यावयवो यतः । ततो महामखः प्रोक्तो ह्यष्टार्ण:
कर्मकारकः । (441) नक्षत्रनेमिः– यो नक्षत्रात्मकं चक्रं ज्योतीरूपमनाम-
यम् । नयति भ्रामयति यं भ्रमन्तमनुयाति तत् । नक्षत्रनेमिः स ज्ञेयो नवार्णो
भ्रमनायकः॥ (442) नक्षत्री- शिंशुमाराकृति प्रोक्त यद्रूपं ज्योतिषां दिवि ।