This page has been fully proofread once and needs a second look.

परिकीर्तितः ॥ (407) पुरुषः - 'स यत्पूर्व' इति श्रुत्या पुरुषः पावनत्वतः ।
पृधातो: पालनार्थाद्धि कुषन्प्रत्यययोगतः । सर्वपालकतालब्ध्या पुरुषः
प्रोच्यते बुधैः । (408) प्राणः - प्राणः सर्वप्राणनाद्धि (409) प्राणद: -
तद्दानात् प्राणदः स्मृतः । (410) प्रणमः - गुणैश्चराचराणां हि नाम-
नात् प्रणमः स्मृतः । (411) पृथुः - यशोविस्तारवत्त्वाच्च पृथुरित्युच्यते
बुधैः ॥ (412) हिरण्यगर्भः - हितस्य रमणीयस्य ध्यातॄणां हृदयस्य हि ।
हिरण्यगर्भस्त्वन्तःस्थः स शुभाश्रयणः स्मृतः ॥ यद्वा हिरण्गर्भोऽसौ हिरण्य-
निधिसाम्यतः । (413) शत्रुघ्न: - शत्रून् इन्द्रियवर्गान् यो हन्ति
शत्रुध्न उच्यते ॥ (414) व्याप्त:- नीचपूज्याविशेषेण व्यापनात् व्याप्त
उच्यते । (415) वायुः – तत्र तत्र स्थितान् सर्वान् भरद्वाजगुहादिकान् ।
गच्छति स्वयमेवैतान् स वायुरिति शब्द्यते । (416) अधोक्षजः-
सदोपभुज्यमानोऽपि सर्वैरमृतसिन्धुचत् । अधो न क्षीयते जातु यस्मात्
तस्मादधोक्षजः ।
 
ऋतुस्सुदर्शनः कालः परमेष्ठी परिग्रहः ।
उग्रस्संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ ४५ ॥
 
(417) ऋतु: - ऋच्छतीति ऋतुः प्रोक्तः सर्वोल्लासकरैर्गुणैः ॥ (418)
सुदर्शन: - मन्दानां च शुभं यस्य दर्शनं स सुदर्शन: । (419) काल:-
-
राचराणां कलनात् कालः स्वस्मिन् गुणैरसौ ॥ (420) परमेष्ठी - परे पदे
स्थितत्वाच्च परमेष्ठी प्रकीर्तितः । (421) परिग्रह:- इहामुत्र समं सर्व-
ग्रहणात् स्यात् परिग्रहः ॥ (422) उग्रः - नष्टे धर्मे कल्किरूपो ह्यवतीर्य
महीभृतः । म्लेच्छादीन् हतवान् योऽसावुग्र इत्युच्यते बुधैः ॥ (423)
संवत्सरः - संहारस्योपकरणैस्साकं कालप्रतीक्षया । संवत्सर: स्यात्
पातालेऽनन्ते संवसतीति सः ॥ (424) दक्षः - शीघ्रार्थत्वाद्दक्षधातोः
निमेषाद्दस्यवो हताः । येन सोऽयं शीघ्रकारी दक्ष इत्युच्यते बुधैः ॥
(425) विश्राम: - पापानि तत्फलान्येवं श्रान्ता भोक्तुं च ये जनाः ।
तेषां विश्रामभूमित्वात् विश्रामः परिकीर्तितः । (426) विश्वदक्षिण: -
पकारिष्वतिक्षान्तो विश्वदक्षिण उच्यते । यद्वाऽश्वमेधे पृथिवीं
दक्षिणात्वेन दत्तवान् । महीसुरेभ्यः कृत्स्नां यः स स्मृतो विश्वदक्षिणः ॥