This page has been fully proofread once and needs a second look.

२५
 
श्रीविष्णुसहस्रनामस्तोत्रम्
 
-
 
-
 
-
 
परिकीर्तितः ॥ (407) पुरुषः - 'स यत्पूर्व' इति श्रुत्या पुरुषः पावनत्वतः ।

पृधातो: पालनार्थाद्धि कुषन्प्रत्यययोगतः । सर्वपालकतालव्ब्ध्या पुरुषः

प्रोच्यते बुधैः । (408) प्राणः - प्राणः सर्वप्राणनादिद्धि (409) प्राणद:-
-
हाद्दानात् प्राणदः स्मृतः । (410) प्रणमः - गुणैश्चराचराणां हि नाम-

नात् प्रणमः स्मृतः । (411) पृथुः - यशोविस्तारवत्त्वाच्च पृथुरित्युच्यते

बुधैः ॥ (412) हिरण्यगर्भः - हितस्य रमणीयस्य ध्यातॄणां हृदयस्य हि ।

हिरण्यगर्भस्त्वन्तःस्थः स शुभाश्रयणः स्मृतः ॥ यद्वा हिरण्गर्भोऽसौ हिरण्य-

निधिसाम्यतः । (413) शत्रुघ्न: - शत्रून् इन्द्रियवर्गान् यो हन्ति

शत्रुध्न उच्यते ॥ (414) व्याप्त:- नीचपूज्याविशेषेण व्यापनात् व्याप्त

उच्यते । (415) वायुः – तत्र तत्र स्थितान् सर्वान् भरद्वाजगुहा दिकान् ।

गच्छति स्वयमेवैतान् स वायुरिति शब्द्यते । (416) अधोक्षजः-

सदोपभुज्यमानोऽपि सर्वैरमृतसिन्धुचत् । अधो न क्षीयते जातु यस्मात्

तस्मादधोक्षजः ।
 

 
ऋतुस्सुदर्शनः कालः परमेष्ठी परिग्रहः ।
 

उग्रस्संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ ४५ ॥
 
-
 
——
 

 
(417) ऋतु: - ऋच्छतीति ऋतुः प्रोक्तः सर्वोल्लासकरैर्गुणैः ॥ (418)

सुदर्शन:- मन्दानां च शुभं यस्य दर्शनं स सुदर्शन: । (419) काल:-
राव

राच
राणां कलनात् कालः स्वस्मिन् गुणैरसौ ॥ (420) परमेष्ठी - परे पदे
स्थ

स्थि
तत्वाच्च परमेष्ठी प्रकीर्तितः । (421) परिग्रह:- इहामुत्र समं सर्व-

ग्रहणात् स्यात् परिग्रहः ॥ (422) उग्रः --ष्टे धर्मे कल्किरूपो ह्यवतीर्य

हीभृतः । म्लेच्छादीन् हतवान् योऽसावुग्र इत्युच्यते बुधैः ॥ (423)

संवत्सरः - संहारस्योपकरणैस्साकं कालप्रतीक्षया । संवत्सर: स्यात्

पातालेऽनन्ते संवसतीति सः ॥ (424) दक्षः - शीघ्रार्थत्वाद्दक्षधातोः

निमेषाद्स्यवो हताः । येन सोऽयं शीघ्रकारी दक्ष इत्युच्यते बुधैः ॥

(425) विश्राम: - पापानि तत्फलान्येवं श्रान्ता भोक्तंतुं च ये जनाः ।

तेषां विश्रामभूमित्वात् विश्रामः परिकीर्तितः । (426) विश्वदक्षिण:-
-
पकारिष्वतिक्षान्तो विश्वदक्षिण उच्यते । यद्वाऽश्वमेधे पृथिवीं

दक्षिणात्वेन दत्तवान् । महीसुरेभ्यः कृत्स्नां यः स स्मृतो विश्वदक्षिणः ॥
 
-
 
4
 
M