This page has been fully proofread once and needs a second look.

२४
 
श्रीविष्णुसहस्रनामस्तोत्रम्
 
त्वतः सदा । प्रोच्यते स्थानद इति सप्तार्णो मनुनायकः । (390) ध्रुवः -

अर्वाचीनं ध्रुवमपि तुङ्गस्थानप्रदानतः । ध्रुवीचकार यस्माद्धि ध्रुवस्त

स्मात् प्रकीर्तितः । (391) परर्द्धि:- कल्याणानां पराणां च गुणाना-

मृद्धिदस्सदा । परावस्थतया चैव परर्द्धिरिति कथ्यते । (392) परम-

स्पष्टः –साक्षात् दृष्टस्वपारभ्यः परमस्पष्ट उच्यते ॥ (393) तुष्टः - लाभात्

दाशरथित्वस्य जगतः पालनस्य च । मनुष्यत्वेऽपि यः प्रीतः स तुष्ट

इति कथ्यते ॥ (394) पुष्ट:-गुणैर्यो ह्यानृशंस्याद्यैः पूर्णः पुष्ट इतीरितः ।

(395) शुभेक्षण:- सौशील्यैश्वर्यपिशुनं शीतलं दीर्घमायतम् । ताम्रं च

लोचनं यस्य स शुभेक्षण ईरितः ॥
 

 
रामो विरामो विरतो (जो) मार्गो नेयो नयोऽनयः ।

वीरश्शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥ ४३ ॥
 

 
(396) रामः - शुभेक्षणेऽस्मिन् स्वगुणै रम्यते राम ईरितः । (397)

विरामः – वरप्रदैर्ब्रह्ममुख्यैरवध्यत्वादिभिर्वरैः । यस्मिन् विरम्यत इति स

विरामः प्रकीर्तितः । (398) विरतः - निसर्गनैरपेक्ष्येण राज्यादेः कृपणाद्वि
धि
यः । विरागी विरतः स स्यात् सप्तार्णः परमाद्भुतः । (399) मृग्यमाणतया

मार्गो भरद्वाजादिभिः सदा ॥ (398) पाठे तु विरजोमार्ग इति पन्थाः

प्रदर्शितः । निर्दोषो येन विरजोमार्गस्सन्मार्गदर्यसौ । (400)

नेयः - नियोगयोग्यः सुहृदां योऽसौ नेयस्स उच्यते । ( 401 ) नयः -

यस्मिन् तपोधना नित्यं नीयन्त इतिवै नयः ॥ (402) अनयः - असुहृद्भिर्नयो

यस्य नास्तीत्यनय उच्यते । अथवा जगतामस्मात् अयो नान्यस्ततोऽनयः ।

(403) वीर: - वीर: कम्पनहेतुत्वात् रक्षसामतिभीमतः । (404) शक्ति-

मतां श्रेष्ठः- सुरादीनां शक्तिमतां यः प्रशस्यतमः स्मृतः । तस्माच्छक्ति-

मतां श्रेष्ठो दशार्णः श्रेष्ठदो मनुः । (405) धर्मः - निःश्रेयसाभ्युदयतो

धर्मः सर्वस्य 'धारणात् ॥ (406) धर्मविदुत्तमः – वसिष्ठाद्युपजीव्यो

यो धर्मे धर्मविदुत्तमः ।
 

 
वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।

हिरण्यगर्भश्शत्रुघ्नो व्याप्तो वायुरघोधोक्षजः ॥ ४४ ॥
 

 
(407) वैकुण्ठः- - संश्लेषप्रतिघातश्च कुठिधात्वर्थ उच्यते । विगतः

स च येषां ते विकुण्ठाः स्युरुदीरिताः । तेषामेवैष इति हि वैकुण्ठः