This page has been fully proofread once and needs a second look.

योगिहृत्कञ्जमध्यस्थः स्वदेहं तं बिभर्ति यः । शरीरभृत् स कथितो
वस्वर्णो भुक्तिमुक्तिदः ॥ (352) महर्द्धिः - स एवाथो विव्रियते वासुदेवो
विभूतिभिः । तद्योगक्षेमवहननिर्मर्यादविभूतितः । महर्द्धि: (353) ॠद्धः
तत्समृद्ध्या यस्समृद्धस्वृद्ध उच्यते । (354) वृद्धात्मा - महिमानं चुल
कयन् प्रवृद्धस्सर्वतोऽधिकम् । आत्मा स्वरूपं यस्येति स वृद्धात्मेति
कथ्यते । (355) महाक्ष: - अक्षस्तु तार्क्ष्यो वहनात् रथावयवसाम्यतः ।
<error>मत्हान्</error><fix>महान्</fix> पूज्यः स यस्यास्ति स महाक्ष इति स्मृतः । (356) गरुडध्वजः-
स एव तु ध्वजो यस्य स उक्तो गरुडध्वजः ॥
 
अतुलश्शरभो भीमस्समयज्ञो हविर्हरिः ।
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥ ३९ ॥
 
(357) अतुल:- गरुडध्वजवत्त्वाद्धि सोऽतुलोऽनुपमः स्मृतः।
(358) · शरभ: - स्वाज्ञातिलङ्घिनः पुंसः शिक्षणात् शरभः स्मृतः ॥ (359)
भीमः - भीमो यस्मात् बिभ्यति तु शरभात् पवनादयः । (360)
समयज्ञः - अभ्यादीनां च समयमूर्ध्द्वाग्रज्वलनादिकम् । यो जाना-
त्यधिकारं स समयज्ञः प्रकीर्तितः । (361) हविर्हरिः - भक्तेभ्यः स्वात्म-
दानाय यो ज्ञात्वाऽवसरं मुदा । दीयते चाऽऽदीयते च तैर्योऽसौ तु हविः
स्मृतः । हरिश्च तद्विघ्नहरो यद्वा क्रतुषु दीयते । यत् हविस्तस्य हरणात्
हविर्हरिरिति स्मृतः ॥ (362) सर्वलक्षणलक्षण्यः- सर्वलक्षणलक्षण्यो
लक्ष्मीलक्षणचिह्नितः (?) ॥ (363) लक्ष्मीवान् - लक्ष्म्या च नित्ययुक्तत्वा-
ल्लक्ष्मीवानिति कथ्यते । (364) समितिञ्जयः – चेतनानां स्वदासत्वविवादं
जयतीति सः । समितिंजय आख्यातः सर्वदुःखशमाश्रयः ॥
 
विक्षरो रोहितो मार्गो हेतुर्दामोदरस्सहः ।
महीधरो महाभागो वेगवान् अमिताशनः ॥ ४० ॥
 
(365) विक्षर:- उक्तस्नेहस्याक्षरणात् विक्षरः परिकीर्तितः ।
(366) रोहितः – पद्मस्य गर्भाभतया रोहितः परिकीर्तितः । (367)
मार्गः- उपासकैर्मार्ग्यमाणो मार्गो वाञ्छितसिद्धये । (368) हेतुः -
वाञ्छितार्थनिदानत्वात् हेतुरित्यभिधीतते ॥ (369) दामोदरः - दामानि