This page has been fully proofread once and needs a second look.

३३
 
श्रीविष्णुसहकानामस्तोत्रम्
 
योगिहृत्कञ्जमध्यस्थः
 
स्वदेहं तं बिभर्ति यः । शरीरभृत् स कथितो

वस्वर्णो भुक्तिमुक्तिदः ॥ (352) महर्द्धिः - स एवाथो विविव्रियते वासुदेवो

विभूतिभिः । तद्योगक्षेमवहननिर्मर्यादविभूतितः । महर्द्धि: (353) द्धः

तत्समृद्ध्या यस्समृद्धस्वृद्ध उच्यते । (354) बृवृद्धात्मा - महिमानं चुल

कयन प्रवृद्धस्सर्वतोऽधिकम् । आत्मा स्वरूपं यस्येति स वृद्धात्मेति

कथ्यते । (355) महाक्ष:-
- अक्षस्तु तार्क्ष्यो वनात् रथावयवसाम्यतः ।

मत्हान् पूज्यः स यस्यास्ति स महाक्ष इति स्मृतः । (356) गरुडध्वजः-

स एव तु ध्वजो यस्य स उक्तो गरुडध्वजः ॥
 
C
 

 
अतुलश्शरभो भीमस्समयशोज्ञो हविहेर्हरिः ।
 

सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥ ३९ ॥
 
-
 

 
(357)
(358) · शरभ:
भीमः - भीमो
समयज्ञः
 
--
 
-
 
-
 
अतुल:- गरुडध्वजवत्त्वाद्धि सोऽतुलोऽनुपमः स्मृतः

(358) · शरभ: -
स्वाज्ञातिलङ्घिनः पुंसः शिक्षणात् शरभः स्मृतः ॥ (359)

भीमः - भीमो
यस्मात् बिभ्यति तु शरभात् पवनादयः । (360)

समयज्ञः
- अभ्यादीनां च समयमूर्ध्द्वाग्रज्वलनादिकम् । यो जाना-

त्यधिकारं स समयज्ञः प्रकीर्तितः । (361) हविर्हरिः - भक्तेभ्यः स्वात्म-

दानाय यो ज्ञात्वाऽवसरं मुदा । दीयते चाऽऽदीयते च तैर्योऽसौ तु हविः

स्मृतः । हरिश्च तद्विघ्नहरो यद्वा क्रतुषु दीयते । यत् हविस्तस्य हरणात्

हविर्हरिरिति स्मृतः ॥ (362) सर्वलक्षणलक्षण्यः- सर्वलक्षणलक्षण्यो

लक्ष्मीलक्षणचिह्नितः (?) ॥ (363) लक्ष्मीवान् - लक्ष्म्या च नित्ययुक्तत्वा-

ल्
लक्ष्मीवानिति कथ्यते । (364) समितिञ्जयः – चेतनानां स्दासत्वविवादं

जयतीति सः । समितिंजय आख्यातः सर्वदुःखरामाश्रयः ॥
 
www
 

 
विक्षरो रोहितो मार्गो हेतुर्दामोदरस्सहः ।

महीधरो महाभागो वेगवान् अमिताशनः ॥ ४० ॥
 
-
 

 
(365) विक्षर:- उक्तस्नेहस्याक्षरणात् विक्षरः परिकीर्तितः ।

(366) रोहितः – पद्मस्य गर्भाभतया रोहितः परिकीर्तितः । (367)

मार्गः- उपासकैर्मार्ग्यमाणो मार्गो वाञ्छितसिद्धये । (368) हेतुः -

वाञ्छ्रिछितार्थनिदानत्वात् हेतुरित्यभिधीतते ॥ (369) दामोदरः - दामानि