This page has been fully proofread once and needs a second look.

(333) वायुवाहन:- जगत्प्राणं वहति यो वायुवाहन उच्यते । (334)
वासुदेवः – सर्वे भूतं वासयति वासुस्स परिकीर्तितः ॥ दिवुधातोरपि
क्रीडाद्यर्थकत्वाद्विशेषतः । वासुश्च देवश्चेत्येष वासुदेवः प्रकीर्तितः ॥
सर्वभूतेष्वपि वसन् स्वस्मिन् भूतानि वासयन् । यः क्रीडति मुदा
यद्वा वासुदेवः स उच्यते ॥ सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः ।
ततस्स वासुदेवेति विद्वद्भिः परिपठ्यते ॥ (335) बृहद्भानुः - बृहन्तो
भानवो यस्य स बृहद्भानुरुच्यते । (336) आदिदेव: - क्रीडतीत्यादि-
देवः स पादात्मकविभूतिभिः ॥ (337) पुरन्दर:- पुरन्दर इति ख्यातोऽसु-
राणां पुरदारणात् ।
 
अशोकस्तारणस्ताणुःश्शूरश्शौरिर्जनेश्वरः ।
अनुकूलश्शतावर्तः पद्मी पद्मनिभेक्षणः ॥ ३७॥
 
(338) अशोक :- अशोकः शोकमोहादिनाशकः परिकीर्तितः ॥
(339) तारण : - तारणोयस्तारयति वैरिव्याघ्रादिभीतितः । (340)
तार:- तारः संसारभयतो नित्यं तारयतीति सः ॥ (341) शूरः-
विजिगीषुतया जैत्रः समर्थः शूर उच्यते । (342) शौरिः – शूरस्य
वसुदेवस्य योऽपत्यं शौरिरुच्यते ॥ (343) जनेश्वरः - प्लवनोज्ज्वलनैः
महौघः स्याज्जनेश्वरः । (344) अनुकूल: – स्वभावतो महत्त्वेऽपि
विस्मयवर्जनात् । भक्तैकप्रवणो नित्यमनुकूल इति स्मृतः । (345)
शतावर्तः– ऐश्वर्यजृम्भिताभिख्या आवर्ता यस्य नित्यशः । शतं सन्ति
शतावर्तो वस्वर्णो भुक्तिमुक्तिदः । (346) पद्मी - गुणतो वासुदेवत्वमुक्तं
रूपादिरुच्यते । लीलापद्मधरो नित्यं पद्मीति परिकीर्त्यते । (347)
पद्मनिभेक्षणः- स्वच्छाम्बुजातसदृशमीक्षणं श्रमहारि च । यस्यास्ति
भक्तरक्षायां स स्यात् पद्मनिभेक्षणः ॥
 
पद्मनाभोऽरविन्दाक्षः पद्मगर्भश्शरीरभृत् ।
महर्द्धि ऋद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ ३८ ॥
 
(348) पद्मनाभ:- नाभिश्च पद्मवद्यस्य पद्मनाभः स उच्यते ।
(349) अरविन्दाक्षः – रक्तारविन्दनयनस्त्वरविन्दाक्ष ईरितः ॥ (350)
पद्मगर्भ:- योगिहृत्पुण्डरीकस्थः पद्मगर्भः स उच्यते ॥ (351) शरीरभृत् -