This page has been fully proofread once and needs a second look.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
२१.
 
(333) बा
(333) वायुवाहन:- जगत्प्राणं वहति यो वायुवाहन उच्यते । (334)

वासुदेवः – सर्वे भूतं वासयति वासुस्स परिकीर्तितः ॥ दिषुवुधातोरपि

क्रीडाद्यर्थकत्वाद्विशेषतः । वासुश्च देवश्चेत्येष वासुदेवः प्रकीर्तितः ॥

सर्वभूतेष्वपि वसन् स्वस्मिन् भूतानि वासयन् । यः क्रीडति मुदा

यद्वा वासुदेवः स उच्यते ॥ सर्वत्रासौ समस्तं च वसत्यत्वेरेति वै यतः ।

ततस्स वासुदेवेति विद्वद्भिः परिपठ्यते ॥ (335) बृहद्भानुः - बृहन्तो

भानवो यस्य स बृहद्भानुरुच्यते । (336) आदिदेव: - क्रीडतीत्यादि-
,

देवः स पादात्मकविभूतिभिः ॥ (337) पुरन्दर:- पुरन्दर इति ख्यातोऽसु-

राणां पुरदारणात् ।
 
-
 

 
अशोकस्तारणस्ताणुःश्शूरश्शौरिर्जनेश्वरः ।

अनुकूलश्शतावर्तः पद्मी पद्मनिभेक्षणः ॥ ३७॥
 

 
(338) अशोक :- अशोकः शोकमोहादिनाशकः परिकीर्तितः ॥

(339) तारण : - तारणोयस्तारयति बैवैरिव्याघ्रादिभीतितः । (340)

तार:- तारः संसारभयतो नित्यं तारयतीति सः ॥ (341) शूरः-

विजिगीषुतया जैलःत्रः समर्थः शूर उच्यते । )(342) शौरिः – शूरस्य

वसुदेवस्य योऽपत्यं शौरिरुच्यते ॥ (343) जनेश्वरः - प्लवनोज्ज्वलनैः

महौघः स्याज्जनेश्वरः । (344) अनुकूल: – स्वभावतो महत्त्वेऽपि

विस्मयवर्जनात् । भक्तैकप्रवणो नित्यमनुकूल इति स्मृतः । (345)

शतावर्तः– ऐश्वर्यजृम्भिताभिख्या आवर्ता यस्य नित्यशः । शतं सन्ति

शतावर्तीतो वस्वर्णो भुक्तिमुक्तिदः । (346) पद्मी - गुणतो वासुदेवत्वमुक्तं

रूपादिरुच्यते । लीलापद्मधरो नित्यं पद्मीति परिकीर्त्यते । (347)

पद्मनि मेभेक्षणः- स्वच्छाम्बुजातसदृशमीक्षणं श्रमहारि च । यस्यास्ति

भक्तरक्षायां स स्यात् पद्मनिभेक्षणः ॥
 

 
-
 

 
पद्मनाभोऽरविन्दाक्षः पद्मगर्भश्शरीरभृत् ।
 

महर्द्धि ऋद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ ३८ ॥
 

 
(348) पद्मनाभ:- नाभिश्च पद्मवद्यस्य पद्मनाभः स उच्यते ।

(349) अरविन्दाक्षः – रक्तारविन्दनयनस्त्वरविन्दाक्ष ईरितः ॥ (350)

पद्मगर्भ:- योगिहृत्पुण्डरीकस्थः पद्मगर्भः स उच्यते ॥ (351) शरीरभृत् -