This page has been fully proofread once and needs a second look.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
अत्यप्रधृष्यमैश्वर्ये परं यत्तेज आस्थितम् । तच्छिखण्डं तु यस्यास्ति

तं शिखण्डीति चक्षतें। 313) नहुषः - जीवान् स्वमायया नित्यं नहुषो

नह्यतीति सः । (314) वृष:- सागरस्योदरे नित्यं वसन् अमृतरूपया ।

स्वदेहकान्त्या वाचापि सम्यगाश्वासयन् मुहुः । बहुशः सिञ्चति तु यः

वृष: स परिपठ्यते । (315) क्रोधहा – काश्यपस्य प्रार्थनया यः क्रोधं

क्षत्रहानिदम् । हतवान् क्रोधहा प्रोक्तः षडर्ण: क्रोधनाशकः । (316).

क्रोधकृत् – कोधकृत् क्षत्रियेभ्यो यः पुरा क्रोधं करोति सः ॥ (317)

कर्ता--क्रुद्धेतोः कार्तवीर्यस्य च्छेसात्ता कर्तेति शज्ब्द्यते । (318) विश्वबाहु :-
-
विश्वस्मै यस्य बाहू स विश्वबाहुः प्रकीर्तितः ॥ (319) महीधर :-

भागवतरणं कृत्वा गां धत्ते स महीधरः ।
 
-
 
२०
 

 
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।

अपान्निधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥ ३५ ॥
 
-
 

 
(320) अच्युतः - च्यवनोत्पत्तियुक्तेषु ब्रह्मेन्द्रवरुणादिषु । यस्मान्न

च्यवते स्थानात् तस्मात् सङ्कीर्त्यतेऽच्युतः ॥ साधर्म्येणावतारेऽपि

ब्रह्मेन्द्रवरुणादिभिः। न स्वैश्वर्यात् प्रच्युतो यः सोऽच्युतः परिकीर्तितः ॥

(321) प्रथितः - अच्युतत्वेन लोकेऽस्मिन् प्रख्यातः प्रथितः स्मृतः ।

(322) प्राण: - पुंसां जीवितरूपत्वात् प्राण इत्यभिधीयते ॥ (323)

प्राणदः - मरुतां बलदानाद्धि समुद्रमथने भृशम् । प्राणदश्च समु-

द्दिष्टः कूर्मरूपतया हि सः (324) वासवानुजः- वासवस्यानुजत्वेन

जातत्वात् वासुवानुजः ॥ (325) अपांनिधिः-अपां निधिर्मथ्यमानमहार्ण-

वविधारणात् । (326) अधिष्ठानम् - भ्रम्यमाणं मन्दराद्रिं धृतवान् यो

महाजणे । अधिष्ठानं तमेवाहुरधिष्ठानप्रदो मनुः । (327) अप्रमत्तः -

अत्यन्तावहितस्त्राणे ह्यप्रमत्तः प्रकीर्तितः ॥ (328) प्रतिष्ठितः - स्खे महिम्नि

स्थितो यस्तु स प्रतिष्ठत उच्यते ॥
 

 
स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः

वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ॥ ३६
 

 
(329) स्कन्दः - असुरादीन् शोषयति स्कन्दः स्कन्दयतीति यः ॥

(330) स्कन्दधर: - स स्कन्दधर आण्ख्यातः षडाननविधारणात् । (331)

धुर्य:- भुवनं धृतवान् धुर्यः (332) वरदः - वरदोऽभीष्टदः स्मृतः ॥