This page has been fully proofread once and needs a second look.

सोऽनलः परिकीर्तितः ॥ (295) कामहा - पुंसां स्वदर्शिनां बोयोऽसौ
स्पृहां च विषयान्तरे । हतवान् कामहा प्रोक्तः सर्वाशापूरको मनुः ॥
(296) कामकृत् - स्वपादपद्मे रागादिकरणात् कामकृत् स्मृतः । (297)
कान्तः - सौन्दर्यादिगुणैः कान्तः (298) कामः - कामो भृशमनोहरः ॥
(299) कामप्रवः – स्वकामक्षुद्रकामेभ्यो यथार्हेहं काम्यदानतः । काम-
प्रदस्समाख्यातो ह्यष्टार्णो मनुरुत्तमः ॥ (300) प्रभुः - सर्वेषां चित्त-
हरणे प्रभुः प्रभवतीति सः ।
 
युगादिकृद्युगावर्तो नैकमायो महाशनः ।
अदृश्योऽव्यक्तरूपश्च सहस्रजिदनन्तजित् ३३ ॥
 
(301) युगादिकृत् - न्यग्नोधशायी भगवान् पुराणपुरुषोत्तमः ।
करोत्यादि युगस्यान्ते स युगादिकृदीरितः । (302) युगावर्त: - धर्म-
व्यवस्थया स्वस्य युगाद्यावर्तनान्मुहुः । युगावर्तः समाख्यातः कालंरूप-
घरो हरि: । (303) नैकमाय:- मुग्धार्भकत्वरूपेण जगन्निर्भरणादपि ।
वटैकपत्रशयनात् निरालम्बजले मुहुः । अनन्ताश्चर्यसंयुक्तो नैकमायस्तु
स स्मृतः । (304) महाशन:- भुवनानां निगरणात् महाशन इतीरितः ।
(305) अदृश्य: – अतर्क्यवृत्तान्ततया जगतः प्रलयेऽपि यः । न लभ्य-
श्चिन्त्यमानोऽपि सोऽदृश्य इति कथ्यते (306) व्यक्तरूपः - महाजले
संचरतो मार्कण्डेयस्य धीमतः । दृश्यो यो व्यक्तरूपत्वात् दिव्यविग्रह-
धारणात् । (307) सहस्रजित् सहस्रयुगसंख्याकं कल्पं स त्वान्तमेव
हि । शयान एव जयति सहस्रजिदिति स्मृतः । (308) अनन्तजित् -
मितस्य शिशुरूपस्य कदाचित् कश्चिदेव च । कथञ्चिदवधिर्नास्ति
महिम्नः परमात्मनः । तस्मादनन्तजिदिति वस्वर्णो जयदो मनुः ॥
 
इष्टोऽविशिष्टशिष्टेष्टः शिखण्डी नहुषो वृषः ।
क्रोधहा क्रोधकृत् कर्ता विश्वबाहुर्महीधरः ॥ ३४ ॥
 
(309) इष्ट:, (310) अविशिष्ट: - इष्टोऽविशिष्टः कथितः सर्व
रक्षणतत्परः । (311) शिष्टेष्ट:- मार्कण्डेयद्विजादीनां पण्डितेष्वग्रयायि-
नाम् । उत्कृष्टपुरुषार्थत्वेनेष्टः शिष्टेष्ट उच्यते । (312) शिखण्डी-