This page has been fully proofread once and needs a second look.

१८
 
श्रीविष्णुसहस्रनामस्तोत्रम्
 
-
 
तानि धत्ते च यः सदा । ओजस्तेजोधुध्युतिधरो ह्येकनामा प्रकीर्तितः ।

(277) प्रकाशात्मा - मूर्खैरपि सदा सम्यक् प्रतिपन्नस्वभाववान्

यस्तु स्यात् स प्रकाशात्मा । (278) प्रतापनः - तीक्ष्णभावः प्रतापनः ।

(279) ऋद्ध: - पार्वणो जलधिर्यद्वत् वृद्धिमान् ऋद्ध उच्यते ॥ (280)

स्पष्टाक्षर:- स्पष्टीकृताश्च वेदोर्णा यस्मात् स्पष्टाक्षरस्ततः । (281)

मन्त्रः – मन्तारं त्रायत इति मन्त्रश्चाप्यभिधीयते ॥ (282) चन्द्रांशुः -
कु

क्ल
महारिमहाह्लादतेजस्करतयाऽपि च । मन्तृणामेव चन्द्रांशुराह्लाद फलदो

मनुः ॥ (283) परप्रभावाभिभवलक्षणद्युतिमांश्च यः । स भास्करद्युतिः

प्रोक्तो नेत्रवैमल्यदो मनुः ॥
 

 
अमृतांशूद्भवो भानुश्शशबिन्दुस्सुरेश्वरः ।

औषधं जगतस्सेतुस्सत्यधर्मपराक्रमः ॥ ३१ ॥
 

 
(284) अमृतांशूद्भवः - सर्वतापहरस्यैव मृतसञ्जीवनस्य च

अमृतोंशोर्हि तज्जत्वादमृतांशूद्भवः स्मृतः ॥ (285) भानुः - रवेस्तेज-

स्करत्वाच्च भानुरित्यभिधीयते । (286) शशविबिन्दु:- शशः प्लुतगतिः

प्रोक्तो बिन्दुस्तस्य निवर्तकः । कौटिल्यगतिविध्वंसी शशबिन्दुरुदाहृतः ।

(287) सुरेश्वर:- धर्ता ऋजुगतीनां यः स सुरेश्वर ईरितः ॥ (288)

श्रौषधम् - भवतीव्रविषं हर्ता ह्यौषधं यस्स उच्यते । (289) जगतस्सेतुः-

निरोधात् जगतस्सेतुस्सदसद्वर्गसंगतेः ॥ (290) सत्यधर्मपराक्रमः-

सत्या ह्यवितथा धर्मा गुणा यस्य पराक्रमः । चेष्टितानि च सन्तीति

सत्यधर्मपराक्रमः ॥
 

 
भूतभव्यभवन्नाथः पवनः पावनोऽनलः ।
 

कामहा कामकृत् कान्तः कामः कामप्रदः प्रभुः ॥ ३२ ॥
 

 
(291) भूतभव्यभवन्नाथः - ऐश्वर्ये स्वाम्यमथ वा त्रिषु कालेषु यस्य

सः । भूतभव्यभवन्नाथः इत्युक्तस्सद्भिरादरात् ॥ (292) पवनः – यतः

स्वयं तु सर्वत्र प्रवहत्येष नित्यशः । प्रवाहः पवनस्तस्मात् कथ्यते
बे

वे
गदो मनुः ॥ (293) पावनः - यः स्वसंबन्धिगङ्गादीन् पावयेत्

लोकपावनान् । स पावन इति स्यातः पावनत्वप्रदो मनुः ॥ (294)
 

अनल:- अपर्याप्तो हि भक्तेभ्योऽप्ष्युपकृत्य पुनःपुनः । अनुग्रहं यः करोति