This page has been fully proofread once and needs a second look.

मनुः । (259) विष्णुः - विष्णुः स्यादविनाभावाद्वयाप्यव्यापकभावतः ॥
(260) वृषपर्वा - वृषाः वार्णाश्रमा धर्माः पर्वण्यारोहणे तु ते । यस्य सन्ति
सदा सोऽयं वृषपर्वा प्रकीर्तितः ॥ (261) वृषोदरः - भक्तैरुपाहृतां पूजा-
मुपहारांश्च धर्मतः । कृत्वोदरे यो जयति स वृषोदर उच्यते ॥ (262)
वर्धनः- मातृवज्जठरे कृत्वा भक्तान् वर्धयति स्वयम् । वर्धनः प्रोच्यते नित्यं
सप्तार्णो वृद्धिदो मनुः ॥ (263) वर्धमानः- वर्धयंस्तान् स्वयमपि
वर्धमानश्च वर्धनः । (264) विविक्तः – लोकोत्तरादिवृत्तान्तात्
स्वैकान्ताद्गुणबृंहितात् । विविक्त इति विख्यातः पावनत्वप्रदो मनुः । (265)
श्रुतिसागर :- नदीनां सार इव स्वगुणोक्तिविधाजुषाम् । श्रुतीनामव-
सानत्वात् कथ्यते श्रुतिसागरः ।
 
सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः ।
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥ २९ ॥
 
(266) सुभुजः - प्रपन्नभरणे धुर्यभुजौ यः सुभुजस्तु सः ॥ (267)
दुर्धर :- परैर्दुर्वारवेगो यो दुर्धरः स च कथ्यते । (268) वाग्मी –
वेदलक्षणवक्तृ (वाक्व ?) त्वात् वाग्मी प्रियहितोक्तितः ॥ (269) महेन्द्रः-
परमैश्वर्यवत्त्वेव महेन्द्र इति शब्द्यते । (270) वसुदः- वसुदोन धनदानाञ्च्
धनायद्भयो विशेषतः । (271) वसुः – सर्वस्य वसुरूपत्वात्
(वासुदेव: सर्वमिति ? ) धनं यस्माद्वसुस्ततः । (272) नैकरूपः– यस्सदा
बहुरूपश्च नैकरूपस्स कीर्तितः ॥ तत्तजनज्ञानयोग्यं रूपं यस्य विशेषतः ।
नैकरूपः समुद्दिष्ट: सर्वप्रत्ययगोचरः ॥ (273) बृहद्रूपः- व्याप्नुवत् यस्य
रूपं तु बृहद्रूपस्स कीर्तितः । (274) शिपिविष्ट: - शिपयो रश्मयः प्रोक्ताः
व्याप्य तेष्वपि वर्तनात् । शिपिविष्टस्समाख्यातः सूर्येन्द्वग्न्यादिरूपवत् ।
(275) प्रकाशन :- विश्वरूपं दिदृक्षुभ्यः पार्थादिभ्यो विशेषतः । रूपं
प्रकाशयति यस्स प्रकाशन ईरितः ।
 
ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ।
ऋद्धस्स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥ ३० ॥
 
(276) ओजस्तेजोद्युतिधरः - असाधारणसामर्थ्ये बलमोजः प्रच-
क्षते । पराभिभवसामर्थ्ये तेजश्च परिपठ्यते । कीर्तिर्वा द्युतिरौज्ज्वल्यं