This page has been fully proofread once and needs a second look.

सुप्रसादः प्रसन्नात्मा विश्वसृग्विश्वभुग्विभुः ।
सत्कर्ता सत्कृतस्साधुर्जह्नुर्नारायणो नरः ॥ २६ ॥
 
(238) सुप्रसाद:- प्रसादपरमत्वाच्च सुप्रसादः प्रकीर्तितः ॥ (239)
प्रसन्नत्मा - अवाप्तसर्वकामत्वात् रागादिरहितं मनः । यस्यास्ति स
प्रसन्नात्मा चित्ततुष्टिप्रदो मनुः ॥ (240) विश्वसृक् – विश्वं जगत्
सृजति यो विश्वसृक् स प्रकीर्तितः । (241) विश्वभुग्विभुः - स सृष्टं
व्याप्य वै भुञ्जन् पालयन् विश्वभुग्विभुः ॥ (242) सत्कर्ता - सत्कर्ता
च स विज्ञेयः सज्जनप्रतिपूजकः । (243) सत्कृतः - अर्चादिभिः सज्जनैर्यः
पूजितः सत्कृतः स्मृतः ॥ (244) साधु : – सेवां सारथ्यदूत्याद्यां साधुः
साधयतीति सः । (245) जह्नुः – अभक्तेष्वात्ममाहात्म्यनिह्नुतेर्जह्नुरुच्यते ॥
(246) नारायण: - अन्तर्बहिश्च तत् सर्वं व्याप्य नारायणः स्मृतः ।
(247) नरः – रः क्षयो यस्य न ह्यस्ति स नरः समुदाहृतः ॥
 
असंख्येयोऽप्रमेयात्मा विशिष्टशिष्टकृच्छुचिः ।
सिद्धार्थस्सिद्धसङ्कल्पस्सिद्धिदस्सिाद्धिसाधनः ॥ २७ ॥
 
(249) असंख्येयः – अगण्यनरसंघो यः सोऽसंख्येयः प्रकीर्तितः ।
(249) अप्रमेयात्मा – एकैकशोऽप्रमेया या ह्यसंख्याता विभूतयः ।
तासां चैवाप्रमेयात्मा व्यापनात् बहिरन्ततः । ॥ (250) विशिष्ट:-
विलक्षणो विशिष्टो यस्सर्वांस्ताननपेक्ष्य सः ॥ (251,252) शिष्ट-
कृच्छुचिः – स्वानुकूलशुभान् कुर्वन् स्वसंबन्धेन तान् स्वयम् । अना-
धेयमहादीप्तिः शिष्टकृच्छुचिरुच्यते ॥ (253) सिद्धार्थ :- सिद्धाः प्राप्ता
यस्य सर्वे ह्यर्थाः सिद्धार्थ ईरितः । अवाप्तसर्वकामो वा सिद्धार्थ इति
कथ्यते ॥ (254) सिद्धसंकल्पः- सत्यसङ्कल्पवत्त्वाच्च सिद्धसङ्कल्प ईरितः ।
(255) सिद्धिद:- सिद्धिदः साधकेभ्यो यो ह्याणिमाद्यष्टसिद्धिदः । (256)
सिद्धिसाधनः- तत्सिध्देश्चापि हेतुत्वात् सिध्दिसाधन ईरितः ।
 
वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः ।
वर्धनो वर्धमानश्च विविक्तश्श्रतिसागरः ॥ २८ ॥
 
(257) वृषाही - वृषो हि धर्मस्तद्रूपमहर्यस्य दिनं स्मृतम् ।
प्रथमाभिगमाहाख्यं वृषाही स प्रकीर्तितः । (258) वृषभः– अभिगच्छद्भक्त
जनान् सुधावर्षणतोऽन्वहम् । वृषभश्च समाख्यातः सिञ्चन् भयहरो