This page has been fully proofread once and needs a second look.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
--
 
सः । (217) स्रग्वी – परत्वसूचिनी या च वैजयन्तीति कीर्तिता । तया
स्त्

स्
रजा नित्ययोगात् स्रग्वीति परिकीर्त्यते । (218) वाचस्पतिः-

वेदोपबृंहणात् वाचस्पतिर्मात्त्स्यपुराणतः ॥ (219) उदारधी:- सर्वोप-

जीव्यसार्वश्या ज्ञ्यादुच्यते स उदारधीः ।
 

 
ग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरण; ।

सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥ २४ ॥
 

 
(220) अग्रणी : - महोदारतया भक्तान् अग्निमं पश्चिमं पदम् ।

नयतीत्यग्रणीः प्रोक्तो भक्तमोक्षप्रदो मनुः । (221) ग्रामणी:- ग्रामं

समाजं सूरीणां नयति ग्रामणीश्च सः ॥ (222) श्रीमान् - मत्स्यरूपाव-

तारेऽपि श्रीमान् कमलनेत्रतः । (223) न्यायः - न्यायो हि युक्तकारि-

त्वात् भक्तेष्वेष विशेषतः ॥ (224) नेता – भक्तैर्नियुक्तं यत् कर्म नेता

तत्करणादपि । (225) समीरण: - भक्तेष्टचेष्टाशीलत्वात् समीरण उदा-

हृतः ॥ (226) सहस्रमूर्धा - सहस्रशब्दो ह्यानन्त्यलक्षकः समुदाहृतः ।

सहस्रमूर्धा सोऽनन्तशिरस्क: कीर्त्यते ततः । सहस्रमूर्धा स स्याद्वा

पुंसक्ताद्युक्तनामवान् । (227) विश्वात्मा - आभ्याञ्च
ज्ञानकर्मभ्यां
विश्वात्मा व्यापनात् स्मृतः ॥ (228) सहस्राक्षः (229) सहस्रपात्-

अक्षिपादपदे ज्ञानकर्मेन्द्रियनिदर्शके । तेनानन्तज्ञानकर्मा सहस्राक्षः
 
www
 
-
 
ज्ञानकर्मभ्यां
 

सहस्रपात् ।
 

 
आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः ।

अहस्संवर्तको वह्निरनिलो धरणीधरः ॥ २५ ॥
 

 
(230) आवर्तन:- संसाराख्यघटीयन्त्रे परिवर्तनशीलतः । चक्रवच्च विशे-
म़ा

षा
वर्तन इतीरितः ॥ (231) निवृत्तात्मा - त्रिपाद्विभूतिकत्वेन

विभूतितः । उद्गतात्मस्वरूपत्वात् निवृत्तात्मेति कथ्यते ॥ (232)

संवृतः - तामसानां तु मूढानां गूढत्वात् संवृतः स्मृतः । (233)

संप्र
मर्दनः–तमसो विद्यया सम्यक् मर्दनात् संप्रमर्दनः ॥ (234)

संवर्तकः - अहर्लक्षितकालस्य परिवृत्तेश्च साधनम् । अहस्संवर्तक

प्राहुर्वेदान्तपारगाः ॥ (235) वह्निः विश्वस्य देशरूपेण वहनात्

च्यते । (236) अनिलः - बद्धादेरननात् योऽसावनिलः परिकीर्तितः ॥

237) धरणीधरः - भूतधात्र्याश्च धरणे रिणात् धरणीधरः ।
 
www
 
-