This page has been fully proofread once and needs a second look.

पद्मनाभ:- पार्थिवं (?) भूरिपद्मं तु नाभावष्टदलं महत् । यस्य हेममयी
दिव्या कर्णिका मंसीमेरुरुच्यते । यस्य नाभौ तदुत्पत्तिः पद्मनाभः स
उच्यते । (199) प्रजापतिः - नैमित्तिके तु यत्सृष्टाः प्रजा ब्रह्ममुखास्तथा ।
तेषां चैष पतिः स्वामी प्रजापतिरिहोच्यते ।
 
अमृत्युस्सर्वदृक् सिंहस्सन्धाता सन्धिमान् स्थिरः ।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ २२ ॥
 
(200) अमृत्युः - नारसिंहमथ स्तौति सर्वमृत्युनिवारणम् । मृत्यो-
र्विरोधिरूपो यो मृत्युमृत्युस्वरूपतः । अमृत्युरिति तं प्राहुः सप्तार्णो
मृत्युनाशकः ॥ (201) सर्वदृक्- अनुकूलान् तटस्थांश्च प्रतिकूलानपि
स्वयम् । नियन्तुं च यथायोग्यं यः पश्यति स सर्वदृक् ॥ (202) सिंह: -
रिपुद्विपानां निष्पेषभीषण: सिंह उच्यते । (203) संधाता -प्रह्लादाद्यैश्च
संधाता संश्लेषकरणाच्च सः ॥ (204) संधिमान्– प्रह्लादाद्यैर्नित्य-
संधिर्यस्य स्यात् संधिमान् स्मृतः । (205) स्थिर:- अपचारेऽप्यचाल्य-
त्वात् संधाने स्थिर उच्यते ॥ (206) अजः- स्तंभजत्वात् इनरवत्
अजातत्वादजः स्मृतः । (207) दुर्मर्षण:- दुष्करं मर्षणं यस्य परैर्दुर्मर्षणः
स्मृतः ॥ (208) शास्ता - समस्तान् कण्टकान् शास्तीत्यतः शास्तेति
कीर्त्यते । (209) विश्रुतात्मा - विस्मयेन श्रुतं देवैः सैंहं यस्याप-
दानकम् । शीलं तैर्विश्रुतात्मा स महाकीर्तिप्रदो मनुः । (210) सुरारिहा
हिरण्यकशिपोर्हन्ता कीर्त्यते स सुरारिहा ॥
 
गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः
निमिषोऽनिमिषः स्रग्वी वाचस्पातिरुदारधीः ॥ २३ ॥
 
(211) गुरुर्गुरुतमो - अथ मत्स्यावतारस्य प्रस्तावस्तु प्रतन्यते ।
अशेषविद्याचार्यत्वात् स्मृतो गुरुतमो गुरुः ॥ (212) धाम – चराचरा
धारतया धामेति परिचक्षते । (213) सत्यः – मन्वादिष्वपि साधुत्वात्
सत्य इत्यभिधीयते ॥ (214) सत्यपराक्रमः – वृत्तिर्ह्यकैतवा यस्य स
स्यात् सत्यपराक्रमः । (215) निमिषः - विरोधिनः सतां योऽसौ नेक्षते
निमिषश्च सः ॥ (216) अनिमिष:- सद्रक्षणे जागरूकः स्मृतो ह्यनिमिषश्च