This page has been fully proofread once and needs a second look.

श्रोविष्णुसहस्त्रनामस्तोत्रम्
 
तेजोऽनपेक्षारूपं स्वं महद्यस्य महाद्युतिः ॥ 179) अनिंनिर्देश्यवपुः-शाज्ञानादि-
पाङ्ग

षाड्गु
ण्यमयमुपमानविवर्जितम् । वपुर्यस्य /यास्ति तेजिष्मनिर्देश्यवपुर्हि सः ॥

(180) श्रीमान् - दिव्यभूषणसंपद्भिर्युक्तः श्रीमान् सदा स्मृतः । (181)

अमेयात्मा-सिन्धुगम्भीरभावो यो ह्यमेयात्मा स कीर्तितः ॥ (182)

महाद्रिभृधृत् - महान्तं मन्दरं यो हि धृतवान् स महाद्रिधृत् ।
 

 
महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।

अनिरूद्धः सुरानन्दो गोविन्दो गोविदांपतिः ॥ २० ॥
 
२२
 
-
 
-
 

 
(183) महेष्वासः - महेष्वासः स विज्ञेयः चण्डकोदण्डमण्डितः ॥

(184) महीभर्ता - धरणीधृतिलीलस्स महीभर्तेति शव्द्यते । (185)

श्रीनिवासः - मथनानीतलक्ष्मीवान् श्रीनिवासः स ईरितः ॥ (186)

सतांगतिः– प्रणतानां प्रियकरः सतां गतिरिहोच्यते । (187) अनिरुद्धः-
-
अनन्तचेष्टायुक्तत्वात् अनिरुद्ध उदाहृतः ॥ (188) सुरानन्द:-
-
सुरानन्दः सुरान् सर्वान् आनन्दयति यः सदा । (189) गोविन्दः

गवां स्तुतिगिरां विन्दो गोविन्दः स उदाहृतः ॥ (190) गोविदां पतिः-
-
गावो वेदगिर. प्राज्ञाः गोविदः तत्सुपालनात् । गोविदां पतिरुद्दिष्टो

वेदविद्वत्प्रदो मनुः
 

 
मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः ।
 

हिरण्यनाभः सुतपा: पद्मनाभः प्रजापतिः ॥ २१ ॥
 
-
 
-
 
-
 
-
 

 
(191) मरीचिः – अन्धेभ्योऽपि च जन्तुभ्यो हंसरूपावतारतः ।

प्रकाशितस्वरूपत्वात् मरीचिरिति कथ्यते ॥ (192) द्रमनः - भवतापस्य

दमनात् कान्त्या दमन ईरितः । (193) हंसः - हन्ता संगस्य हसति

गच्छतीति मनोहरम् । हंस:: , (194) सुपर्णः - शोभनपर्णत्वात् सुपर्ण

इति कथ्यते । संसारपारनयनात् सुपर्ण इति वा मतः ॥ (195)

भुजगोत्तमः - प्रादुर्भावेषु प्रथमः पद्मनाभोऽथ तूच्यते । भुजगस्योत्तमः

शेषी भुजगोत्तम उच्यते ॥ (196) हिरण्यनाभः - हिरण्यनाभः सौन्दर्य-

नाभिर्यस्येति स स्मृतः (हिरण्यानाभो हेमाद्रिकर्णिका भोजनाभिकः ? ।

(197) सुतपा:- तपो बुद्धिः, सैव तनुर्यस्यासौ सुतपाः स्मृतः ॥ (198)
 
-
 

 
-