This page has been fully proofread once and needs a second look.

युक्तत्वात् चतुर्दंष्ट्रः इति स्मृतः । महापुरुषरूपत्वात् (142) चतुर्भुजः-
परः स स्यात् चतुर्भुजः ।
 
भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ १६ ॥
 
(143) भ्राजिष्णु: - उपासितृभ्यो भ्राजिष्णुः स्वप्रकाशनशीलतः ।
(144) भोजनम् – सुखेन भोजनं प्राहुर्यो भक्तैरनुभूयते । (145)
भोक्ता – भोक्ताऽर्पितस्य भोक्तृत्वात्, भोक्ता स्यादमृतस्य वा ॥ (146)
सहिष्णुः – प्रागूर्द्ध्वेवं संचितानां च बुद्ध्या च करणैः सदा । कृतानां
सर्वथा तेषां निषेधविधिशासनम् । अतीत्य क्रियमाणानाम् असत्सेवानु-
बन्धिनाम् स्वावज्ञानिन्दनात्मनाम् ? । सर्वेवंसहेन स्वेनापि दुस्सहानां
विशेषतः । स्वभक्तविषयाणां च निर्मर्यादानामिहैनसाम् । सहनैक-
स्वशीलत्वात् सहिष्णुरिति विश्रुतः ॥ वर्णितोऽभूत् व्यूहभेदः, विभवस्तु
प्रतन्यते - ( 147 ) जगदादिजः - जगतामादिभूतासु मूर्तिष्वन्यतमत्वतः ।
जातत्वात् विष्णुरूपेण प्रोच्यते जगदादिजः ॥ (148) अनघः - पाप-
प्रतिस्पर्ध्यनघः (149) विजयः - विजयो जगतां जयी ॥ (150) नेता-
स्वाभिप्राये स्थापयिता जेता स्याद्विधिशङ्करौ । (151) विश्वयोनिः-
विश्वं तत्कार्यवर्ग: स्यात् योनिस्तस्य तु कारणम् । ब्रह्मादिमुखतो यः स
विश्वयोनिरितीरितः । (152) पुनर्वसुः - ब्रह्मादिष्वपि देवेषु ह्यन्तरात्म-
तयाऽप्यसौ । पुनर्निवसनान्नित्यं पुनर्वसुरुदाहृतः ।
 
उपेन्द्रो वामनः प्रांशुरमोघश्शुचिरूर्जितः ।
अतीन्द्रस्संग्रहस्सर्गो धृतात्मा नियमो यमः ॥ १७ ॥
 
(153) उपेन्द्र - इन्द्रस्याप्यनुजत्वेन जातश्चोपेन्द्र उच्यते ॥
(154) वामनः – दृष्ट्या स्वकान्त्या वामानि सुखानि नयतीति सः ।
बामनः स्यात् (155) प्रांशुः - व्यक्तिमत्त्वात् प्रांशुश्च परिकीर्तितः ॥ (156)
अमोघः - बलेश्च वासवस्यापि कृतार्थीकरणात् समम् । मानातीतप्रभाव-
त्वात् अमोघः परिकीर्तितः । न मोघं चेष्टितं यस्य सोऽमोघः परि-
कीर्तितः । (157) शुचिः–स्वयंकृतोपकारेषु यत्किञ्चित्प्रत्युपक्रियाम् । अन