This page has been fully proofread once and needs a second look.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
वासुदेवोऽपि व्याख्यातोऽत्रैव संग्रहात् । अथ संकर्षणात्मानं

वक्ष्यत्युत्तरनामभिः– (123) महातपाः- महत् पूज्यं तपो ज्ञानं यस्येति
 

स महातपाः ।
 
१०
 

 
सर्वगस्सर्वविद्भानुर्विष्वक्सेनो जनार्दनः ।
 

वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः ॥ १४ ॥
 
-
 
-
 

 
(124) सर्वगः - धारयन् संहृतान् सर्वान् गच्छतीति स सर्वगः ॥

(125) सर्ववित्- प्रद्युम्नत्वे तु कार्याणि लभते यः स सर्ववित् । (126)

भानुः - भानुस्सर्वस्य भातीति निर्माणेऽप्ष्यविकारतः ॥ (127) विष्वक-
क्-
सेनः- इनेन स्वामिना साकं वर्तते सेन इत्ययम् । विष्वङ् रक्ष्यो जनोऽ.

स्यासावनिरुद्धस्तर्थेरितः । (128) जनार्दनः-- भक्तविद्वेषिणां तूर्णे मर्दनास्
त्
स जनार्दनः । (129) वेदः - संकर्षणत्वे शास्त्रार्थप्रदत्वात् वेद ईरितः ।

(130) वेदवित् — असंशयविपर्यासं वेदार्थे वेत्ति वेदवित् । (131)

अव्यङ्गः - शिक्षाव्याकरणाद्यङ्गैर्न हीनोऽव्यङ्ग उच्यते ॥ (132) वेदाङ्ग:-

यस्य वेदोऽनन्तशाखोऽव्ष्यङ्गम् वेदाङ्ग एव सः (133) वेदवित्-
बे

वे
दैवेंर्वेद्यतया वेदस्तदर्थो धर्म उच्यते । तदनुष्ठापनान्नित्यं प्रद्युम्नो

वेदवित् स्मृतः । (134) कविः - स एव क्रान्तदर्शित्वात् कविरित्युच्यते

बुधैः ॥
 

 
लोकाध्यक्षस्सुराध्यक्षो धर्माध्यक्षः कृताकृतः ।

चतुरात्मा चतुर्व्यूहश्चतुर्दष्टदंष्ट्रश्चतुर्भुजः ॥ १५ ॥
 

 
135, 136, 137 लोकाध्यक्षः- सुराध्यक्षः-धर्माध्यक्ष:- धर्माधि-

कारिणो लोकाः, तदाराध्यास्सुरास्तथा । धर्मस्तत्साधनम्, तेष। षामध्यक्षः

स्यात् त्रिनामवान् ॥ लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्ष इति क्रमात् ।

अनिरुद्धः स विज्ञेयो लोकाध्यक्षादिनामवान् ॥ (138) कृताकृतः-

अनित्यनित्यफलदौ प्रवर्तकनिवर्तकौ । धर्मोंमौ यस्य स्वरूपं स कृताकृत

इतीरितः ॥ (139) चतुरात्मा - वासुदेवादिरूपत्वात् चतुरात्मेति कथ्यते

(140) चतुर्व्यूह:- जाग्रत्स्वप्नसुषुप्त्यादि व्यूहावस्थाचतुष्टयम् । एतद्वि-

शिष्टमूर्तित्वात् चतुर्व्यूह इतीरितः । (141) चतुर्दष्टदंष्ट्र:-दंष्ट्राचतुष्क-
---